________________
फेब्रुआरी २०१२
॥ किं वा० ॥ व्याख्या ॥ 'हे सुधाभुक्पूज्य !' हे देवाचार्य्य(देवार्च्य) ! सुधां भुञ्जते इति सुधाभुज - स्तत्पुरुषः, सुधाभुग्भिः पूज्य सुधाभुक्पूज्यस्तत्पुरुषस्तस्य सम्बोधनं वेति पक्षान्तरे । 'त्वदग्रे' भवत्पुरतः; तवाग्रे त्वदग्रे तत्पुरुषः । ‘स्वकीयमात्मीयं; स्वकस्येदं स्वकीयं, चरितं - चरित्रं, मुधा वृथा बहुधा नानाप्रकारेण, बहव: प्रकारा अस्येति बहुधा । ऽहं किं जल्पामि - कथयामि ? यस्मात्कारणात्त्वं वर्त्तसे । त्वं किंलक्षणः ? ' त्रिजगत्स्वरूपनिरूपकः' त्रिभुवनलक्षणकथकः; त्रयाणां जगतां समाहारस्त्रिजगत् द्विगुः; त्रिजगतः स्वरूपं त्रिजगत्स्वरूपं तत्पुरुषः; त्रिजगत्स्वरूपस्य निरूपकत्रिजगत्स्वरूपनिरूपकस्तत्पुरुषः तस्मादत्रेति त्वयि विषये एतदिति मदीयचरित्रं; कियदिति कियत्प्रमाणमस्ति ? यस्मात् सर्वेषां त्रिभुवनजनानां स्वरूपं त्वं जानासीति चतुर्विंशतितमवृत्तार्थः ॥२४॥
३१
टबार्थ : किंवा मुधाऽहं बहुधा सुधाभुक् - सुं वा अथवा घणुं अमृतभुक्; पूज्य त्वदग्रे - हे पूज्य तुझ आगल; चरितं स्वकीयं चरित्र आपणुं; जल्पामि यस्मात्त्रिजगत्स्वरूपं – कहुं जेह भणी त्रिजगत्स्वरूप; निरूपकस्त्वं कियदेद(त)दत्र प्ररूपक तुं केतलो संसारमाह ॥२४॥
-
दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्य: कृपा
पात्रं नात्र जने जिनेश्वर ! तथाप्येतां न याचे श्रियम् । किंत्वर्हन्निदमेव केवलमहो सद्बोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥२५॥ ॥ इतिश्रीसाधारणजिनस्तवनं रत्नाकरसूरिविरचितम् ॥
॥ दीनो० ॥ व्याख्या ॥ ' हे जिनेश्वर !' हे केवलीश ! जिनानामीश्वरो जिनेश्वरस्तत्पुरुषस्तस्य सम्बोधनं, 'त्वदपरो' भवदन्य:, त्वत् अपरस्त्वदपरस्तत्पुरुषः त्वदिति पृथग्पदं वा पुरुषो 'नास्ते' न वर्त्तते पुरुषः । किं लक्षणो ? ‘दीनोद्धारधुरन्धरो' दुःस्थितोद्धरणतत्परः । दीनानामुद्धारो दीनोद्धारस्तत्पुरुषः, धुरन्धरतीति धुरन्धरस्तत्पुरुषः, दीनोद्धारधुरन्धरो दीनोद्धारधुरन्धरस्तत्पुरुषः, ऽत्र इह, 'जने' लोको (के) 'मदन्यो' मद्भिन्नो मत् अन्यो मदन्यस्तत्पुरुषः । मदिति पृथग्पदं वा । पुरुषो नास्ति न वर्त्तते पुरुषः । किंलक्षणम् ‘कृपापात्रं’ दयास्थानं ? कृपायाः पात्रं कृपापात्रं तत्पुरुषः । यद्यप्येतदस्ति ‘तथापि एतां’ गजवाजिकोशादिकां जगव् (त्) प्रसिद्धां श्रियं' लक्ष्मीं न ययाचे