Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 8
________________ अत: शाङ्करभाष्यस्य पद्यमय: संक्षेप एवायं ग्रन्थ इत्युक्त यदि स्यात्तहि व्याहृतिरियं नार्हति वाच्यताम् । अस्य ग्रन्थस्य संशोधनाधारभूता नातिशुद्धा एकव मातृका। सा च तत्रभवतां काशिकराजकीयसंस्कृतपाठशालाप्रधानाध्यक्षाणां ग्रन्थमालाया अस्याः प्राणभूतानां पण्डितप्रवरगोपीनाथकविराजमहोदयानामनुकम्पया सरस्वतीभवनग्रन्थागारादधिगता। अद्यावधि ध्वान्तविलीनस्य ग्रन्थस्यास्य प्रकाशने तेषामासीन्महानभिनिवेशः, अतः पाठकमहोदयानामस्माकञ्चापश्चिमान् धन्यवादान त एवार्हन्ति सन्तः । ___ तामेकामेव मातृकामवलम्ब्य शोधनकर्मणि प्रवृत्तोऽहं यावन्तं परिक्लेशमसहं विपश्चितामनुभूतचरस्य तस्योल्लेखस्य नावावश्यकता । तथापि मदीयशेमुषीदोषेण शीशकातरसंयोजकानामनवधानतया च नास्त्यत्र स्खलितानामभावः । अतो गुणैकपक्षपातिनो विद्वन्मूर्धन्याः सादरमभ्यर्थ्यन्ते यदत्र जातानि स्खलितानि संक्षम्य अनुगृह्णन्तु जनमिममिति । ___टोकायामुद्धृतानां श्रुत्यंशानां पौर्वापर्य्यपालोचनेऽङ्कानां निर्देशमन्तरा कठिनतापतेदनुसन्धातृणामिति यथाशक्ति श्रुत्यध्यायादिसूचका अङ्का अप्यऽत्र सन्निवेशिताः । व्यापारोऽयं कियानपि उपकारी विदुषां यदि स्यात्तदा श्रमो मे साफल्यमुपैष्यति । इदमन्यच्चात्र वक्तव्यं यद् ग्रन्थस्यास्य संशोधने प्रवृत्तस्य मम सन्दिग्धस्थलेषु परामर्शदानेन साहाय्यं विदधाना: काशिकश्रीजोखीराममटरूमल्लगोयनकासंस्कृतमहाविद्यालयाध्यक्षा: पण्डितवर्याश्चण्डीप्रसादशुक्लमहोदया अपि अनेकशो धन्यवादानहन्तीति शम् । काशी सतामाश्रवः श्रीरामनवमी सं० १९८८ श्रीकृष्णपन्तः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 366