Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 7
________________ ( ३ ) अस्यैव महाभागस्य समकालिकोऽयं ग्रन्थकारः विक्रमवत्सरस्याष्टादशशतकान्ते जनिमलभतेति ज्ञायते । महाभागस्यास्य तत्त्वविवेकोपरि एका टोकाप्युपलभ्यते । एवं ( १ ) प्रत्यक्तत्त्वचिन्तामणि:, (२) तट्टीका, (३) तत्त्वविवेकटीका चेति तिस्रोऽस्य कृतथा विदुषामुदमावहन्त्यस्तत्कीर्त्तिलतालबालरूपेण विद्यन्ते । अद्वैतमतावलम्बी सदानन्दमहोदयोऽक्षरशी भगवन्तं श्रीशङ्कराचार्यमनुसरतीति निम्नाम्नातपद्येनावगम्यते— सारात्सारं निगमजलधेरुद्धृतं शास्त्रमेतद् वेदान्ताख्यं सुभगमुनिना न्यायतः सन्निबद्धम् । तत्सारांशं यतिवरगिरा लब्धमादाय कुर्वे प्रत्यकचिन्तामणिमतिमुदा श्रीपतिप्रीतिकामः ॥ अस्य पद्यस्य व्याख्यामातन्वता ग्रन्थकृता स्पष्टीकृतमिदम्निगमो वेदः स एव दुःखगाहादिगुणविशिष्टतया जलधिः समुद्रस्तस्मात्सारप्रतिपादकतया सारभूतादपि सारभूतब्रह्माद्वैतपरमेतच्छास्त्र' वेदान्ताख्यं सुभगमुनिना शोभनैश्वर्यविशिष्टेन सकलवेदार्थावगन्त्रा भगवता व्यासेनोद्धृतं वेदसमुदायान्निष्कृष्योपनिषद्भागः पृथक्कृतः सम्यगध्यायादिरूपेण स्थापितस्तमपि संगृह्य न्यायतः 'अथातो ब्रह्मजिज्ञासा' इत्यादिन्यायरूपेण सम्यनिबद्धं शारीरकमीमासाख्यं शास्त्र सूत्ररूपं कृतं तत्सारांशं यतिवरगिरा यतीनां परमहंसानां मध्ये वरः साक्षाद्भगवतः पशुपतेरवतारतया वेदान्ताब्जभास्करो विनष्टप्रायब्रह्मविद्यासम्प्रदायाविर्भावहेतुर्भगवान् भाष्यकार : श्रीशङ्कराचार्यनामा तस्य गीः श्रुतिस्मृतिसूत्रभाष्यरूपा तया तत्प्रसादान्तदध्ययनादिना लब्धं स्वबुद्धारूढमादाय तदेव मूलतया गृहीत्वा प्रत्यकू चिन्ता - मणिं प्रत्यकूतत्वं ब्रह्मैक्यं वेदान्तप्रमेयं यत् तद्विषयिणी चिन्ता चिन्तनप्रकारश्च तयोर्मणिरिव मणिः सर्वार्थभासकतया स्वरूपप्रकाशकस्तद्वद्बोधजनक एतन्नामको ग्रन्थस्तं कुर्वे इति सम्बन्ध इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 366