Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 6
________________ प्रश्नव्याक र० श्रीअभयदेव. वृत्तिः ॥ २ ॥ ज्ञातावदवसेयः। या चेह द्विश्रुतस्कन्धतोक्ताऽस्य सा न रूढा, एकश्रुतस्कन्धताया एव रूढत्वादिति । गाथा १ आश्रवे व्याख्या खेवम-जंबु'त्ति हे जम्बूनामन् ! 'इणमोत्ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नं शास्त्रं 'अण्हयसंवर-II शास्त्रप्रविणिच्छय'ति आ-अभिविधिना स्लौति-श्रवति कम्में येभ्यस्ते आस्लवा:-आश्रवाः प्राणातिपातादयः पञ्च स्तावना तथा संवियते-निरुध्यते आत्मतडागे कर्मजलं प्रविशदेभिरिति संवरा:-प्राणातिपातविरमणादयः आश्रवाश्च संवराश्च विनिश्चीयन्ते-निर्णीयन्ते तत्स्वरूपाभिधानतो यस्मिंस्तदाश्रवसंवरविनिश्चयम्, तथा प्रवचन-द्वादशाङ्गं जिनशासनं तस्य खजूरादिसुन्दरफलस्य निस्यन्द इव परमरसस्नुतिरिव निस्यन्दोऽतस्तं, प्रवचनफल|निस्यन्दता चास्य प्रवचनसारत्वात्, तत्सारत्वं च चरणरूपत्वात्, चरणरूपत्वं चाश्रवसंवराणां परिहारासेवालक्षणानुष्ठानप्रतिपादकत्वात्, चरणस्य च प्रवचनसारता "सामाइयमाईयं सुयनाणं जाव विंदुसाराओ। तस्सवि सारो चरणं सारो चरणस्स निव्वाण ॥१॥” मिति [सामायिकादिकं श्रुतज्ञानं यावद्विन्दुसारः । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणं] वचनप्रामाण्यादिति, वक्ष्ये-भणिष्यामि निश्चयायनिर्णयाय निश्चयाथै निश्चयो वाऽर्थः-प्रयोजनमस्येति निश्चयार्थं वक्ष्ये इत्येतस्याः क्रियाया विशेषणमथवा निर्गतकर्मचयो निश्चयो-मोक्षस्तदर्थमित्येवं शास्त्रविशेषणमिदं, सुष्टु केवलालोकविलोकनपूर्वतया यथाऽवस्थितत्वेन भाषितो-भणितोऽर्थो यस्य तत्तथा, कैः सुभाषितार्थमित्याह-महान्तश्च ते सर्वज्ञत्वतीर्थप्रवर्त्तनाद्यतिशयवत्त्वाद् ऋषयश्च-मुनयो महर्षयस्तैः, तीर्थकरैरित्यर्थः, अत्र च 'जंबू' इत्यनेन जम्बूनाम्नः ॥ २ ॥ Jain Education anal For Personal & Private Use Only S anelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 332