Book Title: Prashnabhushanabhidhoya Granth Author(s): Jivnath Sharma, Shashipal Sharma Publisher: Braj B Das and Co View full book textPage 7
________________ प्रश्नभूषणम् । तत्र गता यदि पापनभोगा (१) आगमनं न वदन्ति महान्तः ॥ २७ ॥ चतुर्थतो वा दशमाद्दितोये ऽभ्येति खेचरः ॥ यावता तावता धीरः पथिकागमनंवदेत् ॥ २८ ॥ प्रश्नकाले यदा केन्द्र द्वितीये तारकापतिः ॥ आयाति पथिकस्तत्र विना सप्तमराशिगम् ॥ २८ ॥ सप्तमस्थो यदा चन्द्रः पथिकः पथि वर्त्तते ॥ मार्गाधिपो वा राज्यर्द्वात्परतो यदि संस्थितः ॥ ३० ॥ चराने चरभागे ऽपि चतुर्थे यदि चन्द्रमाः ॥ आयाति तत्चणादेव प्रवासी पत्रिका ऽपिच ॥ ३१ ॥ जीवो वा भार्गवो वाऽपि चन्द्रो वा सुखवेश्मनि ॥ पथिकं गुदमायान्तं जानीयात्प्रश्नवित्तदा ॥ ३२ ॥ गुरुशुको द्वितीये वा तृतीये प्रश्नखद्मतः ॥ तथा गृहागतं विद्यात्पथिकं नात्र शंसयः ॥ ३३ ॥ शुक्रज्ञरविमन्दानामेको ऽपि चररशिगः ॥ प्रवासी शीघ्रमायाति न च वक्री यदा तदा ॥ ३४ ॥ प्रश्नलग्नाच्च्युतिर्वाच्या वृद्धिस्तु सुखभावतः ॥ प्रवासो दशमस्थानान्निवृत्तिः सप्तमालयात् ॥ ३५ ॥ सत्वरं चरनग्ने तु स्थिर लग्ने न संभवः ॥ द्विःखभावे विलम्बेन सदमद्ययोगतः ॥ ३६ ॥ शशाङ्कलग्नप। षष्ठे सप्तमे वा युता यदि । " (१) पापनभोगा नभसी आकाशे गच्छन्ति इतेि नभोगाः ग्रहा. पापायते नभोगाच इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24