Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशमरतिः हारि वृत्तिः
उपोद्वातः
*
**
*
ब्यादिप्रदेशवन्तो यावदनन्तप्रदेशिकाः स्कन्धाः । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ॥ २०८॥ भावे धर्माधर्माम्बरकालाः पारिणामिका ज्ञेयाः । उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः ॥ २०९ ॥ जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषोऽयम्।वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः । लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥ २१३ ॥ धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनाऽस्तिकाया जीवमृते चाप्यकर्तृणि ॥ २१४ ॥ धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद् गगनम् ॥ २१५॥ स्पर्शरसवर्णगन्धाः शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योताऽऽतपश्चेति ॥ २१६ ॥ कर्मशरीरवाग्विचेष्टितोच्छासदुःखसुखदाः स्युः । जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१॥ परिणामवनाविधिपरापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ २१८ ॥ मिथ्यादृष्टयविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३ ॥ पश्चनवव्यष्टविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः । द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५ ॥
एवं रागो द्वेषो मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥५६॥ ६-३ योग. पुण्य-पाप
योगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः ५।। वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः॥ ६ ॥ २२०॥
*
**
*
Jain Education D
onal
For Private & Personal Use Only
SNw.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 240