SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिः हारि वृत्तिः उपोद्वातः * ** * ब्यादिप्रदेशवन्तो यावदनन्तप्रदेशिकाः स्कन्धाः । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ॥ २०८॥ भावे धर्माधर्माम्बरकालाः पारिणामिका ज्ञेयाः । उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः ॥ २०९ ॥ जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषोऽयम्।वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः॥२१॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः । लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥ २१३ ॥ धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनाऽस्तिकाया जीवमृते चाप्यकर्तृणि ॥ २१४ ॥ धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकर्ताऽधर्मोऽवकाशदानोपकृद् गगनम् ॥ २१५॥ स्पर्शरसवर्णगन्धाः शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योताऽऽतपश्चेति ॥ २१६ ॥ कर्मशरीरवाग्विचेष्टितोच्छासदुःखसुखदाः स्युः । जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१॥ परिणामवनाविधिपरापरत्वगुणलक्षणः कालः । सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणा जीवाः ॥ २१८ ॥ मिथ्यादृष्टयविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥ ३३ ॥ पश्चनवव्यष्टविंशतिकद्विश्चतुःषट्कसप्तगुणभेदः । द्विःपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥ ३५ ॥ एवं रागो द्वेषो मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥५६॥ ६-३ योग. पुण्य-पाप योगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः ५।। वाकायमनोगुप्तिनिराश्रवः संवरस्तूक्तः॥ ६ ॥ २२०॥ * ** * Jain Education D onal For Private & Personal Use Only SNw.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy