Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi

Previous | Next

Page 751
________________ परीक्षामुखसूत्रपाठः। ॥ प्रथमः परिच्छेदः ॥ प्रमाणादर्थसंसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १ ॥ १ स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम् । २ हिताहितप्राप्तिपरिहारसमथं हि प्रमारणं ततो ज्ञानमेव तत् । ३ तन्निश्चयात्मकं समारोप विरुद्धत्वादनुमानवत् । ४ अनिश्चितोऽपूर्वार्थः।। ५ दृष्टोऽपि समारोपात्तादृक् । ६ स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । ७ अर्थस्येव तदुन्मुखतया। ८ घटमहमात्मना वेद्मि। ६ कर्मवत्कर्तृकरणक्रियाप्रतीतेः। १० शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् । ११ को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् । १२ प्रदीपवत् । १३ तत्प्रामाण्यं स्वत : परतश्चेति । ॥ द्वितीयः परिच्छेदः ॥ १ तद् द्वेधा। २ प्रत्यक्षेतरभेदात् । विशदं प्रत्यक्षम् । ४ प्रतीत्यन्त राव्यवधानेन विशेषवत्तया वा प्रतिभासनं वेशद्यम् । ५ इन्द्रियानिन्द्रियनिमित्त देशत: सांव्यवहारिकम् । ६ नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत् । ७ तदन्वयव्य तिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवन्नक्तञ्चरज्ञानवच्च । ८ प्रतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् । ६ स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति । १० कारणस्य च परिच्छेद्यत्वे करणादिना व्यभिचारः । ११ सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् । १२ सावरणत्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762