Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi

Previous | Next

Page 750
________________ अथ प्रशस्ति प्रणम्य शिरसा वीरं धर्मतीर्थप्रवर्तकम् । तच्छासनान्वयं किञ्चिद् लिख्यते सुमनोहरम् ।। १ ।। नभस्तत्वदिग्वीराब्दे कुन्दकुन्द गणी गुणी । संजातः संघनायको मूलसंघप्रवर्तकः ॥ २ ॥ आम्नाये तस्य संख्याताः विख्याताः सुदिगम्बराः । प्राविरासन् जगन्मान्याः जनशासनवर्द्धकाः ॥ ३ ॥ क्रमेण तत्र समभूत सूरिरेकप्रभावकः । शांतिसागर नामा स्यात् मुनिधर्मप्रवर्तकः ।। ४ ।। वीरसागर आचार्यस्तत्पट्ट समलंकृतः । ध्यानाध्ययने रक्तो विरक्तो विषयामिषात् ।। ५ ।। अथ दिवंगते तस्मिन् शिवसिन्धुर्मुनीश्वरः । चतुर्विधगणैः पूज्यः समभूत् गणनायकः ।। ६ ।। तयोः पार्वे मया लब्धा दीक्षा संसारपारगा। पाकरी गुणरत्नानां यस्यां कायेऽपि हेयता ।। ७ ।। [विशेषकम् ] प्रशमादिगुणोपेतो धर्मसिन्धर्मनीश्वरः । आचार्यपद मासीनो वीरशासनवर्धकः ॥ ८ ।। प्रार्या ज्ञानमती माता विदुषी मातृवत्सला। न्यायशब्दादिशास्त्रेषु धत्त नैपुण्य माञ्जसम् ।। ६ ।। कवित्वादिगुणोपेता प्रमुखा हितशासिका। गर्भाधानक्रियाहीना मातैव मम निश्छला ।। १० ।। नाम्ना जिनमती चाहं शुभमस्यानुप्रेरिता। यया कृतोऽनुवादोयं चिरं नन्द्यात् महीतले ।। ११ ॥ ॥ इति भद्रं भूयात् सर्व भव्यानां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762