Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi
________________
७१०
प्रमेयकमलमार्तण्डे
३६ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति । ३७ एतद्वयमेवानुमानाङ्गनोदाहरणम् । ३८ न हि तत्साध्यप्रतिपत्त्य ङ्गतत्र यथोक्तहेतोरेव व्यापारात् । ३६ तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्सिद्धेः। ४० व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात्
दृष्टान्तान्तरापेक्षणात् । ४१ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मतेः । ४२ तत्परमभिधीयमानं साध्यमिरिण साध्यसाधने सन्देहयति । ४३ कुतोऽन्यथोपनयनिगमने । ४४ न च ते तदंगे। साध्यमिणि हेतुसाध्ययोर्वचनादेवासंशयात् । ४५ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् । ४६ बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासो न वादेऽनुपयोगात् । ४७ दृष्टान्तो धा । अन्वयव्य तिरेकभेदात् । ४८ साध्यव्याप्त साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः । ४६ साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । ५० हेतोरुपसंहार उपनयः । ५१ प्रतिज्ञायास्तु निगमनम् । ५२ तदनुमानं द्वेधा। ५३ स्वार्थपरार्थभेदात् । ५४ स्वार्थमुक्तलक्षणम् । ५५ परार्थं तु तदर्थपरामशिवचनाज्जातम् । ५६ तद्वचनमपि तद्धेतुत्वात् । ५७ स हेतुधोपलब्ध्यनुपलब्धिभेदात् । ५८ उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । ५६ अविरुद्धोपलब्धिविधी षोढा व्याप्य कार्यकारणपूर्वोत्तरसह चरभेदात् । ६० रसादेकसामग्रयनुमानेन रूपानुमानमिच्छद्भिरिटमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रति
बन्धकारणान्तरावैकल्ये । ६१ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः । ६२ भाव्यतीतयोमरणजाग्रबोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् । ६३ तद्वयापाराधितं हि तद्भावभावित्वम् । ६४ सहचारिणोरपि परस्परपरिहारेणावस्थानात्स होत्पादाच्च । ६५ परिणामी शब्द:, कृतकत्वात्, य एवं स एवं दृष्टो यथा घटः, कृतकश्चायम्, तस्मात
परिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धया, कृतकश्चायम्,
तस्मात्परिणामी। ६६ अस्त्यत्र देहिनि बुद्धिाहारादे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762