Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi

Previous | Next

Page 756
________________ परीक्षामुखसूत्रपाठः ७१३ १८ प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितस्वादधर्मवत् । १६ शुचि नरशिरःकपालं प्राण्यङ्गस्वाच्छङ्खशुक्तिवत् । २० माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्रसिद्धवन्ध्यावत् । २१ हेत्वाभासा प्रसिद्धविरुद्धानेकान्तिकाकिञ्चित्कराः । २२ प्रसत्सत्तानिश्चयोऽसिद्धः । २३ अविद्यमानसत्ताक: परिणामी शब्दश्चाक्षुषत्वात् । २४ स्वरूपेणासत्त्वात् । २५ अविद्यमाननिश्चयो मुग्धबुद्धि प्रत्यग्निरत्र धूमात् । २६ तस्य बाष्पादिभावेन भूतसंघाते सन्देहात् । २७ सौख्यं प्रति परिणामी शब्दः कृतकत्वात् । २८ तेनाज्ञातत्वात। २६ विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्द : कृतकत्वात् । ३. विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः । ३१ निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत् । ३२ प्राकाशे नित्येऽप्यस्य निश्चयात् । ३३ शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् । ३४ सर्वज्ञत्वेन वक्तृत्वाविरोधात् । ३५ सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः । ३६ सिद्धः श्रावणः शब्दः शब्दत्वात् । ३७ किञ्चिदकरणात् ३८ यथाऽनुष्णोऽग्निद्रव्यत्वादित्यादौ किञ्चित्कतु मशक्यत्वात् । ३६ लक्षण एवासौ दोषो व्युत्पन्न प्रयोगस्य पक्षदोषेणैव दुष्टत्वात् । ४० दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभया:। ४१ अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटवत् । ४२ विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् । ४३ विद्युदादिनाऽतिप्रसङ्गात् । ४४ व्यतिरेकेऽसिद्धतद्व्यतिरेका: परमाण्विन्द्रियसुखाकाशवत् । ४५ विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषेयम् । ४६ बालप्रयोगाभास : पञ्चावयवेषु कियद्धीनता । ४७ अग्निमानयं देशो धूमवत्त्वात् यदित्थं तदित्थं यथा महानस इति । धूमवांश्चायमिति वा। ४६ तस्मादग्निमान् धूमवांश्चायमिति । ५० स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् । ५१ रागद्वेषमोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् । ५२ यथा नद्यास्तीरे मोदकराशय : सन्ति धावध्वं माणवकाः । . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762