Book Title: Pramey Kamal Marttand Part 3
Author(s): Prabhachandracharya, Jinmati Mata
Publisher: Lala Mussaddilal Jain Charitable Trust Delhi

Previous | Next

Page 755
________________ ७१२ १०१ यथा मेर्वादयः सन्ति । प्रमेयकमलमार्त्तण्डे ॥ चतुर्थः परिच्छेदः । १ सामान्य विशेषात्मा तदर्थो विषयः । २ प्रनुवृत्तव्यावृत्त प्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च । ३ सामान्यं द्वेधा, तिर्यगूर्ध्वताभेदात् । ४ सदृशपरिणाम स्तिर्यक् खण्डमुण्डादिषु गोत्ववत् । ५ परापरविवत्तं व्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिषु । ६ विशेषश्व | ७ पर्यायव्यतिरेकभेदात् । ८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया श्रात्मनि हर्षविषादादिवत् । ६ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् । ॥ पञ्चमः परिच्छेदः ॥ १ श्रज्ञाननिवृत्तिनोपादानोपेक्षाश्च फलम् । २ प्रमाणादभिन्नं भिन्नञ्च । ३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः । ।। षष्ठः परिच्छेदः ।। १ ततोऽन्यत्तदाभासम् । २ प्रस्वसंविदितगृहीतार्थ दर्शन संशयादयः प्रमाणाभासाः । ३ स्वविषयोपदर्शकत्वाभावात् । ४ पुरुषान्तरपूर्वार्थगच्छत्त णस्पर्शस्थाणुपुरुषादिज्ञानवत् । ५ चक्षुरसयोद्रव्ये संयुक्तसमवायवच्च । ६ प्रवेशद्ये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धूमदर्शनाद्वह्निविज्ञानवत् । ७ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् । प्रतस्मिंस्तदिति ज्ञानं स्मरणाभासम्, जिनदत्ते स देवदत्तो यथा । ६ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् । १० असम्बद्धे तज्ज्ञानं तर्काभासम्, यावांस्तत्पुत्रः स श्यामो यथा । ११ इदमनुमानाभासम् । १२ तत्रानिष्टादि: पक्षाभासः । १३ अनिष्टो मीमांसकस्यानित्यः शब्दः । १४ सिद्धः श्रावरणः शब्दः । Jain Education International १५ बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः । १६ श्रनुष्णोऽग्निर्द्रव्यत्वाज्जलवत् । १७ श्रपरिणामी शब्द : कृतकत्वात् घटवत् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762