________________
७१२
१०१
यथा मेर्वादयः सन्ति ।
प्रमेयकमलमार्त्तण्डे
॥ चतुर्थः परिच्छेदः ।
१ सामान्य विशेषात्मा तदर्थो विषयः ।
२ प्रनुवृत्तव्यावृत्त प्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च ।
३ सामान्यं द्वेधा, तिर्यगूर्ध्वताभेदात् ।
४ सदृशपरिणाम स्तिर्यक् खण्डमुण्डादिषु गोत्ववत् ।
५ परापरविवत्तं व्यापिद्रव्यमूर्ध्वता मृदिव स्थासादिषु । ६ विशेषश्व |
७ पर्यायव्यतिरेकभेदात् ।
८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया श्रात्मनि हर्षविषादादिवत् । ६ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ।
॥ पञ्चमः परिच्छेदः ॥
१ श्रज्ञाननिवृत्तिनोपादानोपेक्षाश्च फलम् ।
२ प्रमाणादभिन्नं भिन्नञ्च ।
३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः ।
।। षष्ठः परिच्छेदः ।।
१ ततोऽन्यत्तदाभासम् ।
२ प्रस्वसंविदितगृहीतार्थ दर्शन संशयादयः प्रमाणाभासाः । ३ स्वविषयोपदर्शकत्वाभावात् ।
४ पुरुषान्तरपूर्वार्थगच्छत्त णस्पर्शस्थाणुपुरुषादिज्ञानवत् । ५ चक्षुरसयोद्रव्ये संयुक्तसमवायवच्च ।
६ प्रवेशद्ये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धूमदर्शनाद्वह्निविज्ञानवत् ।
७ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ।
प्रतस्मिंस्तदिति ज्ञानं स्मरणाभासम्, जिनदत्ते स देवदत्तो यथा ।
६ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि प्रत्यभिज्ञानाभासम् । १० असम्बद्धे तज्ज्ञानं तर्काभासम्, यावांस्तत्पुत्रः स श्यामो यथा ।
११ इदमनुमानाभासम् ।
१२ तत्रानिष्टादि: पक्षाभासः ।
१३ अनिष्टो मीमांसकस्यानित्यः शब्दः ।
१४ सिद्धः श्रावरणः शब्दः ।
Jain Education International
१५ बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ।
१६ श्रनुष्णोऽग्निर्द्रव्यत्वाज्जलवत् ।
१७ श्रपरिणामी शब्द : कृतकत्वात् घटवत् ।
For Private & Personal Use Only
www.jainelibrary.org