Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 391
________________ 220 प्राकृतसर्वस्वम् । लक्ष्णस्य शलौ क्रमतः शचावुभावपि हरिश्चन्द्रे । हस्याधो णलमां स्थितिरूर्ध्वं युक्तस्य ठः ष्टस्य ॥ २९ ॥ उष्ट्रे वा अस्थ्यादेर्नित्यं थः स्तस्यास्तवस्तम्बे । खः स्थूणार्थे स्तम्भे स्फोटे स्थाणौ च न हरार्थे ॥ ३० ॥ य्याभिमन्यौ जस्तूर्यादौ रचसमे रिअः । शौर्यार्यभार्याश्वर्ये वा पर्यस्तादिषु लो भवेत् ॥ ३१॥ आ द्रस्य न वा स्यादादेरोच्च अर्पितेऽप्येवम् । अधूर्तादौ तस्य टः स्यान्मृत्तिकायां च पत्तने ॥ ३२ ॥ गर्ते डो गर्दभादौ र्दस्त्यभ्यद्यां चछजाः स्मृताः । न व्यत्ययादौ ध्ययोर्झः साध्वसे ध्वस्य वा भवेत् ॥ ३३ ॥ अस्निग्धादों ग्धर्धयोढ दब्धयोरपि कुत्रचित् । ष्कस्कक्षां खः क्वचिन्न स्यात् क्वचिद्वा छः क्षुरादिषु ॥ ३४ ॥ क्ष्मस्य च स्यात् क्षमादेर्वा म्हः ष्मविस्मयपक्ष्मणाम् । फो वा श्लेष्मणि कुष्माण्डे हः स्यादोत्वमुतस्तथा ॥ ३५ ॥ कार्षापणे विन्धः ष्पस्पयोः फत्वमिष्यते । सस्य लोपः क्वचित् पस्य क्वचित् छत्वं भवेत् क्वचित् ॥ ३६ ॥ बापेऽश्रुणि हः श्रत्सप्सां छः स्यान्नोत्सुकोत्सवयोः । वृश्चिके ञ्छो न्मस्य मो णो नज्ञपञ्चदशादिषु ॥ ३७ ॥ चत्वरे चोमृदुत्वे कः पः क्मकुट्मलयोर्भवेत् । वात्मनि भो हो वस्यापि विह्वले भिन्दिपाले ण्डः ॥ ३८ ॥ वृन्ते ष्टः शादिशिरस्थयोर्नणोः स्त्रिहेर्न स्यात् । तीक्ष्णे निशितार्थे खः शेषादेशावनादौ द्विः ॥३९॥ asa युजः पूर्वो नीडादावाम्रकनताम्रे वः । न रहावाङो ज्ञो णः सेवादौ वा समास उत्तरतः ॥ ४० ॥ लिष्टम्लिष्टक्रियारत्नशार्ङ्गषु स्याद्विकर्षणम् । पूर्वं तत्स्वरवच्च स्यात्कृष्णे वा स्यान्न नामनि ॥ ४१ ॥ इः श्रीह्रीकान्तम्लानक्लिशिषु प्रस्य च स्वप्ने । शर्षषु स्यात् स्पृशिदृश्योर्वा स्यात्क्वचिन्न स्यात् ॥ ४२ ॥ बहरच्च दशार्हे लग् वज्रस्य वा प्रागित् । लोषपुष्टश्लोकस्नायुषु नित्यं न वा स्नातेः ॥ ४३॥ एवं स्निहेरपि स्यात् पूर्वे वस्यापि मत्वं च । अः क्ष्माश्लाघ्योययामीरस्यादुत्पद्मतन्व्याद्योः । चार्वङ्गयां रस्य च लुक् द्वारे वाद्योः क्रमाल्लुक् च ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424