________________
220
प्राकृतसर्वस्वम् ।
लक्ष्णस्य शलौ क्रमतः शचावुभावपि हरिश्चन्द्रे । हस्याधो णलमां स्थितिरूर्ध्वं युक्तस्य ठः ष्टस्य ॥ २९ ॥ उष्ट्रे वा अस्थ्यादेर्नित्यं थः स्तस्यास्तवस्तम्बे । खः स्थूणार्थे स्तम्भे स्फोटे स्थाणौ च न हरार्थे ॥ ३० ॥ य्याभिमन्यौ जस्तूर्यादौ रचसमे रिअः । शौर्यार्यभार्याश्वर्ये वा पर्यस्तादिषु लो भवेत् ॥ ३१॥ आ द्रस्य न वा स्यादादेरोच्च अर्पितेऽप्येवम् । अधूर्तादौ तस्य टः स्यान्मृत्तिकायां च पत्तने ॥ ३२ ॥ गर्ते डो गर्दभादौ र्दस्त्यभ्यद्यां चछजाः स्मृताः । न व्यत्ययादौ ध्ययोर्झः साध्वसे ध्वस्य वा भवेत् ॥ ३३ ॥ अस्निग्धादों ग्धर्धयोढ दब्धयोरपि कुत्रचित् । ष्कस्कक्षां खः क्वचिन्न स्यात् क्वचिद्वा छः क्षुरादिषु ॥ ३४ ॥ क्ष्मस्य च स्यात् क्षमादेर्वा म्हः ष्मविस्मयपक्ष्मणाम् । फो वा श्लेष्मणि कुष्माण्डे हः स्यादोत्वमुतस्तथा ॥ ३५ ॥ कार्षापणे विन्धः ष्पस्पयोः फत्वमिष्यते । सस्य लोपः क्वचित् पस्य क्वचित् छत्वं भवेत् क्वचित् ॥ ३६ ॥ बापेऽश्रुणि हः श्रत्सप्सां छः स्यान्नोत्सुकोत्सवयोः । वृश्चिके ञ्छो न्मस्य मो णो नज्ञपञ्चदशादिषु ॥ ३७ ॥ चत्वरे चोमृदुत्वे कः पः क्मकुट्मलयोर्भवेत् । वात्मनि भो हो वस्यापि विह्वले भिन्दिपाले ण्डः ॥ ३८ ॥ वृन्ते ष्टः शादिशिरस्थयोर्नणोः स्त्रिहेर्न स्यात् । तीक्ष्णे निशितार्थे खः शेषादेशावनादौ द्विः ॥३९॥
asa युजः पूर्वो नीडादावाम्रकनताम्रे वः । न रहावाङो ज्ञो णः सेवादौ वा समास उत्तरतः ॥ ४० ॥ लिष्टम्लिष्टक्रियारत्नशार्ङ्गषु स्याद्विकर्षणम् ।
पूर्वं तत्स्वरवच्च स्यात्कृष्णे वा स्यान्न नामनि ॥ ४१ ॥ इः श्रीह्रीकान्तम्लानक्लिशिषु प्रस्य च स्वप्ने । शर्षषु स्यात् स्पृशिदृश्योर्वा स्यात्क्वचिन्न स्यात् ॥ ४२ ॥ बहरच्च दशार्हे लग् वज्रस्य वा प्रागित् । लोषपुष्टश्लोकस्नायुषु नित्यं न वा स्नातेः ॥ ४३॥
एवं स्निहेरपि स्यात् पूर्वे वस्यापि मत्वं च । अः क्ष्माश्लाघ्योययामीरस्यादुत्पद्मतन्व्याद्योः । चार्वङ्गयां रस्य च लुक् द्वारे वाद्योः क्रमाल्लुक् च ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org