________________
श्लोकबद्धः सूत्रपाठः।
219
भद्वा दुकूले लश्च द्विरेनूपुर तोऽद्भवेत् । इण्यादावुदृत्वादावयुक्तस्य रिरिष्यते ॥ १४ ॥ क्वचिद्युक्तस्यापि वृक्षे वेन सर्वा लुतस्तु लिः । इलिः क्लते वेदनादेवरकेसर एत इत् ॥१५॥ एदैतो दैत्यादेरइर्भवेद्वा तु देवादेः । इत्सैन्धवादिषु स्यादीद्वैर्यस्य प्रकोष्ठ ओतोऽद्वा ॥ १६ ॥ कस्य च वः स्यादौदोदउ पौरायेषु मौनमौल्यो । माञ्च स्यागौरव उत्सौन्दर्यायेषु नित्यं स्यात् ॥ १७ ॥
द्वितीयः पादः। अयुजोऽनादौ प्रायः कगचजतदपबयवां लोपः । यमुनायां मो मदकलमरकतयोः कस्य गो भवति ॥ १८ ॥ भ्मौ शीकरचन्द्रिकयो) निकषस्फटिकचिकुरेषु । ऋत्वादेस्तो दः स्यात् क्वचिन्न वा वसतिभरते हः ॥ १९ ॥ डः प्रत्यादावैरावतगर्भितयोर्णता प्रदीप्यादेः । दो लः स्यात् संख्यागद्गदयो रः पस्य वो म आपीडे ॥ २० ॥ अनीयङादेर्यो जो वा कबन्धे वः पमौ क्रमात् । टस्य डः शकटादौ ढः स्फटिके लोऽथ ठस्य ढः ॥२१॥ अङ्कोठे ल्लो डस्य लः स्याच्छिफादौ फस्य भो भवेत् । हः खघथधभां च स्यात्ककुदे दस्यौषधादौ ढः ॥ २२ ॥ वः कैटभै हरिद्रादौ रो ल आद्यस्य यो जः स्यात् । यष्टयां लश्चो म्लेच्छार्थकिराते खस्तु कुब्जकन्धरयोः ॥ २३ ॥ दशतिदहत्योर्डः स्याद्वा दोहददण्डदोलासु । परुषादीनां फः स्याद्विसस्य भो मन्मथे वः स्यात् ॥२४॥ लागलादेो वा षट्शावकसप्तपणे छः । नो णो द्वित्वेऽप्यादेर्वा शषयोः सो दशनि हः स्यात् ॥ २५॥ वा नाम्नि दिवसपाषाणयोः सपोश्चैवमेव स्यात् । छायायां यस्य तथा वाच्यश्चेदातपाभावः ॥२६॥
तृतीयः पादः। उपरिस्थाः कगडतदपबषसो लोप्या अधो मनयः । लवरः सर्वत्र द्रे रो वा सर्वेङ्गिते ज्ञो जः ॥२७॥ ण्णुअजाणुअ इत्येतावप्यकृतज्ञादिषु स्याताम् । श्मश्रुश्मशानयोरादिर्मध्याह्ने हकारश्च ॥ २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org