________________
...
.
APPENDIX III
प्राकृतसर्वस्वस्य श्लोकबद्धः सूत्रपाठः।
प्रथमः पादः। प्रकृतिः संस्कृतं तत्र भवं प्राकृतमुच्यते । तद्भवं तत्समं चेति द्वेधा देश्यं च केचन ॥ १ ॥ तञ्च भाषाविभाषापभ्रंशपैशाचभेदतः। चतुर्विधं तत्र भाषा विभाषाः पञ्चधा पृथक् । अपभ्रंशास्त्रयस्तिस्रः पैशाच्यश्चेति षोडश ॥२॥ महाराष्ट्री शौरसेनी प्राच्यावन्ती च मागधी। इति पञ्चविधा भाषा युक्ता न पुनरष्टधा ॥३॥ शाकारी चैव चाण्डाली शाबर्याभीरिका तथा । टाकीति युक्ताः पञ्चैव विभाषा न तु षड्विधाः॥४॥ नागरो वाचडश्वोपनागरश्चेति ते त्रयः। अपभ्रंशाः परे सूक्ष्मभेदत्वान्न पृथङ्मताः ॥५॥ कैकेयं शौरसेनं च पाञ्चालमिति च विधा । पैशाच्यो नागरा यस्मात् तेनाप्यन्या न लक्षिताः ॥ ६॥ अतः षोडशधाभिन्नभाषालक्ष्म प्रचक्ष्महे । वेद्या विदग्धैरपरास्तत्तद्देशानुसारतः ॥७॥
सिद्धं पाणिन्यादेरादेरत आन्न वा समृद्ध्यादौ । स्वमेषत्पकाङ्गारमृदङ्गवेतसेष्वित् स्यात् ॥ ८॥ प्रथमे प्रथयोर्युगपत्क्रमेण वोद्भवति लुगरण्ये। एच्छय्यादौ बदरे देनौल्लवणेन वेन समम् ॥९॥ लावण्यस्य विकल्पेन वा मयूरमयूखयोः।। स्याच्चतुर्थीचतुर्दश्योस्तुनाऽदातो यथादिषु ॥ १० ॥ इत्सदि पिण्डादिष्वेदत्पथिपृथिवीहरिद्रासु। वाक्यादिस्थस्येतेस्तेरित्थमुदिक्षुवृश्चिकयोः ॥ ११॥ ओच्च द्विधाकृजि ई सिंहजिह्वयोरीत इद्गृहीतादौ । जीवेर्वा स्यात् कीदृशनीडापीडेदृशानामेत् ॥ १२ ॥ तुण्डादेरुत ओत्स्यादुडूखले ड्वा न वाऽन्मुकुटतुल्ये। उपरेर्वेत्पुरुषे रोः सेदुर उदूत उन्मधूकस्य ॥ १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org