________________
221
श्लोकबद्धः सूत्रपाठः ।
चतुर्थः पादः। संधौ बहुलमचामज्लोपविशेषा युते ह्रस्वः । शेषे द्वित्वमनाते दीर्घः स्याद् गुण इतः क्वापि ॥ ४५ ॥ विंशत्यादौ बिन्दोलक तेर्वा दीर्घता चादेः।
ओत्वं लुक् च विसर्गस्य दोलोपः स्यादुदुम्बरे ॥ ४६॥ यसश्च संख्याशब्दानां यावदादिषु वस्य वा। कालायसे यस्य दस्य हृदये जस्य भाजने ॥ ४७ ॥ अन्त्यस्य हलो नित्यं विद्युद्वर्जे स्त्रियामात्स्यात् । रो रा क्षुधि हा शरदो दः स्यादिक्प्रावृषोः सः स्यात् ॥ ४८॥ आयुरप्सरसोर्वा स्याद् वक्रादौ बिन्दुरिष्यते । मश्चाचि वा नङोहलि तद्वर्गान्तो न वा वर्गे ॥४९॥ लुङ्मांसादौ सिंहे संस्कारादौ च नित्यं स्यात् । पुंसि सन्तप्रावृटशरदः प्रेमादिवर्ज स्युः ॥ ५० ॥ काश्मीरसीमोष्मेमानः स्त्रियां प्रश्नाक्षिसंधयः । पृष्ठरश्मी च वान्येषामन शिष्टानुसारतः ॥५१॥ अवापयोरोन्माल्ये निर उच्चोपस्य कस्यचित् । त्वस्य त्तणं स्यात्ताया दा क्वायचोस्तूणतूणमौ ॥ ५२ ।। तो द्विलुक् च क्वचिदिअ उआणश्च क्वचिच्च तुम् । त्वा च दद्वणमित्याद्या वन्तः स्यात् क्तवतोर्वतोः ॥ ५३ ॥ तृङेरिराल्विल्लोलवंतेंतास्तु मतोर्मताः।। हनोर्मन्त इणो वा स्यादाल्वन्तादिण्णपि वा स्त्रियाम् ॥ ५४॥ उल्लस्तस्येदमित्यर्थे इल्लस्तत्र भवे भवेत् । स्वार्थे च हश्च दीर्धकाद्रल्लौ लस्तु पीतविघुझ्याम् ॥५५॥ एभ्योऽपि क इअ मयटो हुत्तं कृत्वोर्थ आभिमुख्ये च । वृन्दे दस्य द्रः स्यात् स्थितिपरिवृत्ती रणोः करेण्वां स्यात् ॥५६ ॥ हरयोश्च महाराष्ट्रस्येतरथायां न वा रथयोः । आलाने लनोलटयोर्ललाट आदेश्च णः कश्चित् ॥ ५७ ॥ अपती घरो गृहस्य स्यातां च बृहस्पतावभी हबयोः । मलिने लिनोरिलौ वा स्यातां दाढादयो बहुलम् ॥ ५८ ॥
पञ्चमः पादः। सावत ओत्स्यादेतदि वा लोपो जश्शसोरमोऽतश्च ।। टामोणं भिस् हिं ङसिरादोदुहयो भ्यसो हिंतो ॥ ५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org