________________
222
प्राकृतसर्वस्वम् । सुतो च डसः स्सो हेरम्मी स्यातां सुपः सुं स्यात् । दी? जश्ङस्याम्सु भ्यसि वा डिङसौ विना सुप्येत् ॥ ६०॥ नैतावनामि कतिपञ्चायोरस्य क्वचिल्लोपः । इदुतोः शस् णो दीघौं ह्रस्वौ स्यातां ङसो वा स्यात् ॥ ६१॥ जस ओ वो अच्च प्राक् टा णा दीर्घः सुभिस्सुप्सु । न स्यात् क्वचित् स्त्रियां शसुदोताविदुतोश्च दीर्घः स्यात् ॥ ६२ ॥ जस वाऽमि हस्वः टाङसिङस्ङीनामिदेददातः स्युः। नातोऽदातावादीतो बहुलं सोनपुंसके बिन्दुः ॥ ६३ ॥ जश्शसोरिं प्राक् च दीर्घः स्यादक्ष्णोऽच्छीणि च क्वचित् । संबुद्धौ सावोत्वदीर्घबिन्दवो न स्युरात एत् ॥ ६४ ॥ न स्यात् कचिदीदुदम्बानां ह्रस्वः सुपि ऋदारः । पित्रादेरर उद्वा जश्शस्टाडस्ङसिवमातुः स्यात् ॥६५॥ आत्सौ सुपि मात्रादेर्ननान्दृयात्रोस्तु नित्यं स्यात् । सौ राज्ञोऽतश्च तथा णो जश्शस्ङसिङसां तु स्यात् ।। ६६ ॥ टा णा द्विर्वा जस्य च लोपः स्यान्णोरपीत्थमिच्छन्ति । अद्वित्व इज्जश्शसोर्णो विधावाच्चाप्यदन्तता ॥ ६७ ॥ संबुद्धौ सोस्तु बिन्दुर्वा भवद्भगवतोः सदा । आत्मादीनामाणोऽनित्वद्वित्वं च राजवत्सर्वम् ॥ ६८।। सर्वनाम्नो जसः पुंस्येद् डेः स्सिम्मित्थाः स्युरस्त्रियाम् । किंयत्तदेतदिदमां ट इणा वाऽऽम एसिं स्यात् ॥ ६९ ॥ किंयत्तद्भयो डस आसः स्यादीप्रत्यये स्सा से। त्रिषु डेहिं प्राक् पुंवच्चाऽऽला आहे इआ दार्थे ॥ ७॥ सवैकान्येभ्यश्च ङसेी त्तो प्राङ् न दीर्घश्च । इदमो दस्य च लुक्स्यादो च तदस्तो च सह डसा से स्यात् ॥ ७१॥ आमा ण सिं स्यातामम्टाभिसि णः किमः कः स्यात् । इदम इमः स्यादः स्सिंस्सयोर्न वा दस्य हो डिना न त्थः। कीबे स्वम्भ्यामिदमिणमिणमों सममेणमेतदोम्टाभ्याम् ॥ ७२ ॥ तो पञ्चम्यास्तलुक् तोत्थे सावलीबे तदश्च सः । अदसो मुः सुना वाह युष्मदस्तुं तुमं तथा ॥ ७३ ॥ तं चामा स्यात्तुज्झे तुम्हे तु जसा शसा वो च । टाङिभ्यां तइ तुमए तए तुमे तुमइ टा तुमाइ भवेत् ॥ ७४ ॥ तुज्झेहिं तुम्हेहिं भिसा तु ङसिना तुमा तुमादो च। तत्तो तुमादु च तुमाहि तइत्तो चेति षट् प्रोक्ताः ॥ ७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org