Book Title: Prakritsarvaswam
Author(s): Markandey, Krushnachandra Acharya
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 407
________________ 236 प्राकृतसर्वस्वम् । ३०. शय्यादिः शय्यासौन्दर्यपर्यन्तग्राह्याश्चर्यास्त्रयोदश । वल्लीवृन्तोत्कराद्याश्च शय्यादिरिति कीर्तितः ॥ 1.7 ३१. समृद्धयादिः - समृद्धिः प्रतिसिद्धिश्च प्रसिद्धिः प्रकटं तथा । प्रसुप्तं च प्रतिस्पर्धी मनस्वी प्रतिपत्तथा । अभियातिः सदृक्षं च समृद्धयादिरयं गणः ॥ 1. 3 ३२. सेवादिः - सेवा कौतूहलं दैवं निहितं नखजानुनी । त्रैलोक्यं कर्णिकारश्च वेश्या भूजं च दुःखितम् ॥ उत्सवोत्सुकदीर्धेकशिवतूष्णीकरश्मयः । दुष्करो निष्कृपो रात्रीश्वरदुर्लभनायकाः ॥ वद्वापिवादयः कर्मकरो मन्ये परस्परम् । अश्वाश्रचित्तपुष्याद्याः प्रादीणश्च श्रमिश्वसी ॥ 3.75 ३३. सैन्धवादिः - सैन्धवभैक्षाजीविकनैयोगिकपैण्डपातिकाः प्रोक्ताः ॥ 1. 45 ३४. सौन्दर्यादिः - सौन्दर्य शौण्डिकः शौण्डो दौवारिकोपविष्टके । कौक्षेयपौषपालोमीमौञ्जीदौःसाधिकादयः ॥ 1. 52 ३५. हरिद्रादिः - मुखराङ्गारयुधिष्ठिरसुकुमाराश्चरणपरिघकरुणाश्च । परिखा किरात इत्यादयो हरिद्रादयः प्रोक्ताः ॥ 2. 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424