Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 14
________________ पारस्करगृहासूत्रम् । [प्रथमा हि स्मरणमष्टकादीनामष्टकाः कर्तव्या इति । अनादिरयं संसारः स्मरणमप्येपामनायेवेति । ननु चोक्तमापस्तम्वेन तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त इति तस्माद्वेदमूलकत्वम् । नैतदेवम् । शाखानामुत्सादस्तु सतीनामेव भवति नासतीनाम् । तत्र चायं दोपः स्यात् य एव कश्चित्काञ्चिच्छाखां न पठति तस्यैतद्विहितं स्मार्त स्यात् यस्तु पठेत्तस्य श्रौतमिति । तत्र पुरुपापेक्षया तदेव श्रौतं स्मात चेत्ययुक्तरूपता स्यात् , स्मरणात्स्मृतिरिति संज्ञा चान्वर्थिकी, युक्तकर्मानुष्ठानञ्च स्मरणं मनुगौतमवसिष्ठापस्तम्बादिभिर्ग्रन्थेनोपनिवद्धम् , तस्मात्कर्व्वसामान्यादनुष्ठेयोऽयमर्थ इत्यनुमीयते । तथा च लिङ्गम् , नैमित्तिकं व्याहृतिहोमं प्रकृत्यामनन्ति, यवृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहक्थ, यदि यजुष्टो भुव इत्याग्नीवीये अन्वाहार्यपचने वा हविर्यज्ञे यदि सामतः स्वरित्यावनीय इति प्रकृत्याह-यद्यविज्ञातमसत्सर्वाणि अनुद्रत्याह्वनीये जुहवथेति । अविज्ञातं च यन्न ज्ञायते किमार्वेदिकम् किंवा याजुर्वेदिकम् सामवेदिकं वेति विनष्टञ्च यत्तत् स्मार्तमविज्ञातमित्युच्यते । वेदमूलकत्वे ह्यवश्यमेवान्विप्यमाणं जायेत तत्किम्मूलमिति, तस्मात्स्मृतिप्रवाहादेवायमर्थोऽनुष्ठेय इति गम्यते इति । श्रौतस्मातत्वचिन्ताप्रयोजनं नित्यत्वादिज्ञापनार्थम्, औतन्नित्यङ्काम्यं स्मार्तश्च नित्यमिति । 'गृह्यस्थालीपाकानामिति' गृह्यः शालाग्निः आवसथ्याग्निः औपासन इति नार्थान्तरम् । तत्र ये स्थालीपाकाः स्थालीपाकग्रहणञ्चाज्यपुरोडागधानासक्त्वाद्युपलक्षणार्थम् । यतः स्थालीपाकमुपक्रम्याज्यमुपसंहरति 'निरुग्याज्यमधिश्रित्य ' इति । एवमाज्यग्रहणमपि स्थालीपाकाग्रुपलक्षणम् , यतः सर्वेषामेवेदं साधारणङ्कोच्यते नात्र प्रकृतिविकृतिभाव इति । विध्यादिवि. ध्यन्तवती प्रकृतिः । यत्र पुनर्विध्यादिमानं विध्यन्तस्तु नास्ति सा विकृतिरिति । न चात्र विध्यादिविष्यन्तस्वरूपता, यतः सर्वाण्येव स्थालीपाकादीनि प्रकृत्य धर्मविधानम् । परिसमुह्य' इत्यादि सूत्रम् । तत्र परिसमूहनादयः पञ्च पदार्था भूमिशुद्धयर्था इति केचित् । तद्युतम् । नाशुद्धे देशेऽग्निस्थापनप्रवृत्तिर्युक्तेति तस्मादग्न्यर्थी एवेत्यपरे । अतो यत्र यत्राग्नेः स्थापनन्तत्र तत्रैते कर्तव्याः न च गृह्यस्थालीपाकादिकर्मान्तर्भाव एपाम्, 'यत एष एव विधिर्यत्र कचिद्धोम' इत्यभिहिते पुनरभिधीयतेउपलिउद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनेनाप्रवृत्तिस्तत्रैषाम् तस्मादग्न्या एवैत इति । तथा च लिङ्गम्-उद्धते वा अवोक्षितेऽग्निमादधातीति । तत्प्रयोजनञ्च स्वस्थानस्थित एवाग्नौ क्रियमाणे स्थालीपाकादौ नैते क्रियन्त इति । 'दक्षिणतो ब्रह्मासनमास्तीर्य' इत्यासनमानं स्यात् न ब्रह्मोपवेशनम् , आस्तरणमानोपदेशात कचिच्चोपवेशनविधानाद्दक्षिणतो ब्रह्माणमुपवेश्येति । तन्न । अदुःटप्रसङ्गात् , नादृष्टाथै कश्चिदासनप्रकल्पनङ्कुर्यात्-ब्रह्मासनव्यपदेशानुपपत्तेश्च, तस्माद्ब्रह्मोपवेशनार्थमास्तरणम् । यत्तूक्तम् दक्षिणतो ब्रह्माणमुपवेश्येति तदुदपात्रस्थापनावसरविधित्सया । प्रस्तुतब्रह्मोपवेशनञ्चास्य ज्ञापकम् ब्रह्मासनमास्तीर्य कर्तव्यम् । 'प्रणीयः किम् अपः । अपां हि प्रणयन सर्वार्थ दृष्टम् तद्वदिहापि सर्वार्थानामपां प्रणयनम् । 'परिस्तीर्य' किम् अग्निम् । 'अर्थवदासायेति' प्रयोजनवत्पात्रजातमासाद्येत्यर्थः । प्रयोजनश्च कार्यक्रमेण मुख्यक्रमानुरोधात् । 'पवित्रे कृत्वा' यथा प्रदेशान्तरे कृते तथैवेति । 'प्रोक्षणीः संस्कृत्य' उत्पवनोद्दिजनादिना । 'अर्थवत्प्रोक्ष्य' इत्यनेन कार्यवताम्प्रोक्षणम् ॥ 'निरुप्याज्यमधिश्रित्य ' इत्याज्यस्य निर्वाप औपयिकस्य पृथक्रिया । 'अधिश्रित्य अग्नौ । 'पर्यग्नि कुर्यात् । आज्यं स्थालीपाकादि च, उपलक्षणत्वादाज्यस्य । घुवं प्रतप्य अधोमुखं तापयित्वा पुष्करतः । तमेव दमैंः 'संमृज्याभ्युक्ष्य' च पुनः प्रतप्य तथैव निध्याइक्षिणतः । 'आज्यमुद्रास्य' अग्नेः सकाशाचरोः पूर्वेण अग्नरुत्तरतोऽवस्थाप्य तदुत्तरतः स्थालीपाकमपि । तदेवाज्यमुत्पूय पवित्राभ्याम् । अवेक्ष्य अपद्रव्यमपाकर्तुम् । 'प्रोक्षणीश्च' पूर्ववदुस्पूय । चशब्दादाज्यं च पूर्ववत् अतः पवित्राभ्यामित्युक्तम् प्रोक्षणीसंस्कारश्च पर्युक्षणार्थः,

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 560