Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 21
________________ afusar ] प्रथमकाण्डम् | ११ 1 ब्रह्मासनमीक्ष्य पूर्वासने निदध्यादित्यर्थः । एतच प्रणीताप्रणयनं दृष्टफलं सर्वार्थ चेति कर्काचार्याः । दृष्टार्थतायामपि संयवनार्थमिदमिति केचित् । उदककृत्यं सर्व प्रणीताजलेन चेत्क्रियते तदा स्वकाले कर्मानुष्ठानं तेनैव निर्वाहश्च । उक्तं च- 'लभ्यमाने तु दृष्टेर्थे नादृष्टस्य प्रकल्पना' इति । तस्मात्सर्वार्थाः प्रणीता इति । प्रणीताभिः संयौतीति श्रवणात्संयवनार्था इत्यन्ये । यदि हि सर्वार्थ प्रणीताप्रणयनं भवेत्तदा प्रणयनसंस्कृतनीरसंसर्गः प्रतीयेत । तस्य च संयवनेनैव प्रतीयमानत्वात्संयवनार्थतैवेति । तदेतत्तुच्छम् । पक्षाद्यादिषु संयवनाभावेऽपि प्रणीतादर्शनात् । अथ नियोगसाधनीभूतद्रव्ये अप:संयवनं तदर्थः लक्षणापत्तेः । अथ प्रणयनादेः संस्कारस्य श्रुतित एव लाभाच्छुतौ च संयवनार्थतैव दृष्टेति चेत् । प्रणीतायाः संयवनार्थत्वे उपसदि संयवनव्यतिरेकात्प्रणीताया अपि व्यतिरेकः प्रस्तज्येत । तथाच प्रसंजितत्र्यतिरेकप्रतियोग्युल्लेखं सूत्रकृन्न कुर्यात्कृतवांश्च तदुल्लेखं प्रणीताद्युपसदिति सूत्रकृत् । किंच सविधे पशौ प्रणीताव्यतिरेकेपि ॠतुनिर्वाहसंदर्शनात्संयवनरूपदृष्टार्थताऽदृष्टसाधारणार्थता वेत्येतदविचाररमणीयम् । किं चापः प्रणयतीत्युपक्रम्य ततो देवा एतं वज्रं ददृशुर्यदप इत्याधर्थवादपर्यालोचनया विघ्ननिवर्तकत्वं प्रणीतायाः प्रतिपाद्यत इति प्रतीयते । तच्च साक्षान्न संभवतीत्यदृष्टमेव व्यापार इति सिद्धं शतपथश्रुतित एव प्रणीतायाः अदृष्टार्थत्वम् । 'परिस्तीर्य' प्रागमैरुदगश्च तृणैरभेः परिस्तरणं कृत्वेत्यर्थः । प्राच्यां प्रथममुद्गणैः प्रक्षेपः । दक्षिणतः प्रागभैः । ततः प्रतीच्यामुद्गणैः । तत उदीच्यां प्रागमैः । 'अर्थवदासाद्य' अर्थः प्रयोजनं तद्वत्पात्रसमुदायमासाद्य स्थापयित्वा प्रारब्धक्रियास्तोम निष्पादकनिःशेषसामग्रीनिष्पादनं कुर्यादित्यर्थः । तद्यथा पवित्रच्छेदनानि त्रीणि, पवित्रे द्वे, प्रोक्षणीपात्रं, चर्वादिमति चरुस्थाली, संमार्गकुशाः, उपयमनकुशाः, समिध:, स्रुवः, आज्यं, सण्डुलाः, वर्हिः पूर्णपात्रं, वरो वा । दर्विहोमेषु पाकयज्ञेषु पक्षादिप्रभृतिषु पौर्णमासधर्माणां कात्यायनचरणैरतिदिष्टत्वात्प्रकृते च पाकयज्ञानां परिभाषासूत्रार्थस्य पर्यालोच्य - मानत्वादतिदेशप्राप्ताः ग्रहणासादनप्रोक्षणादयः पौर्णमासधर्मा अपि लिख्यन्ते । नन्वेत एव कथं स्थालीपाप ग्रहणासादनप्रोक्षणानि मंत्रदेवताभ्य इति शाङ्खायनोक्तेः । तेन स्स्योपहितमोषधीकरणम् । ततः चर्वादिग्रहणम् अमुष्यै देवतायै जुनं गृह्णामीत्येवं मुष्टित्रयम् । चतुर्थसंख्यापूरणी मुष्टिं विनैव मन्त्रं गृहीयात् । यथादैवतमन्यत् । चर्चादेखिखिः क्षालनं ततः वाग्यमनम् | 'पवित्रे कृत्वा ' कुशौ समावप्रशीर्णामावनन्तर्गभौं कुशैः छित्त्वेत्यर्थः । न नखैः, शाखान्तरे निषिद्धत्वात् । 'प्रोक्षणीः संस्कृत्य ' प्रोक्षणीरिति जलवाचिपदम् । ताः संस्कृत्येत्यर्थः । प्रोक्षणीसंस्कारश्चैवम् । आदौ प्रोक्षणीपात्रे नीरप्रक्षेपः, ततः पूर्वसंपादितपवित्राभ्यामुत्पवनं, पात्रस्य ततः सव्यहस्ते निधानं, दक्षिणेनोदिङ्गनं, ताभिरेव तासां प्रोक्षणमिति । 'अर्थवत्प्रोक्ष्य' अर्थः प्रयोजनं तद्वत् । स्मृतिबोधितप्रारब्ध क्रियासंपादकं चर्वादि घृतादिकं पात्रादिकं च सर्व प्रोक्षणीनामधेयाभिरभिषिच्येत्यर्थः । तथाच दक्षिणहस्तोपात्तप्रोक्षणीभिः समयं पात्रसमुदायं सकृदेव प्रोक्षणीयमित्यर्थः । श्रुतौ शुन्यध्वमिति मंत्रलिङ्गात् । अत्राह कर्क:- प्रोक्षणस्य पात्रोद्देशेन विधानात्पात्राणां च संस्कार्य, स्वात्प्रतिसंस्कार्य संस्कारावृत्तेर्व्याय्यत्वात्प्रतिपात्रं प्रोक्षणमिति । श्रुतावुद्देश्यगतं बहुत्वं न विवक्षितमिति । नैतदपि विचारसहं, तथाहि--क्रमावेदकमानापेक्षा तत्रैव यत्राशक्यानुष्ठानमनेकविषयमेकं कर्म । नचैतत्प्रकृते । सकृदेव सर्वेषां प्रोक्षणस्य शक्तिगोचरत्वात् । अथासादनकालीनक्रमरूप विशेषाश्रयादेकत्वप्रतीतिरिति चेत्तर्हि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावादेकस्यैव प्रोक्षणं भवेत् । अथ सर्वेषां संस्कार्यत्वादावृत्तिराश्रयणीयेति चेत्, तर्हि किमर्थमुक्तमुद्देश्यगतमनेकत्वं न विवक्षितमिति । तदा हि फलवत्य विवक्षा स्यात् यदैकत्वद्वित्वान्यतरसंख्यावच्छिन्नस्य सामर्थ्यात्प्राप्तौ सत्यां वहुत्वसंख्यावच्छिन्नस्य शब्दबोध्यस्याविवक्षामाश्रित्य सामर्थ्याक्षेपायथा प्राप्तेषु सर्वप्रहेषु संमार्गोङ्गीक्रियते ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 560