________________
afusar ]
प्रथमकाण्डम् |
११
1
ब्रह्मासनमीक्ष्य पूर्वासने निदध्यादित्यर्थः । एतच प्रणीताप्रणयनं दृष्टफलं सर्वार्थ चेति कर्काचार्याः । दृष्टार्थतायामपि संयवनार्थमिदमिति केचित् । उदककृत्यं सर्व प्रणीताजलेन चेत्क्रियते तदा स्वकाले कर्मानुष्ठानं तेनैव निर्वाहश्च । उक्तं च- 'लभ्यमाने तु दृष्टेर्थे नादृष्टस्य प्रकल्पना' इति । तस्मात्सर्वार्थाः प्रणीता इति । प्रणीताभिः संयौतीति श्रवणात्संयवनार्था इत्यन्ये । यदि हि सर्वार्थ प्रणीताप्रणयनं भवेत्तदा प्रणयनसंस्कृतनीरसंसर्गः प्रतीयेत । तस्य च संयवनेनैव प्रतीयमानत्वात्संयवनार्थतैवेति । तदेतत्तुच्छम् । पक्षाद्यादिषु संयवनाभावेऽपि प्रणीतादर्शनात् । अथ नियोगसाधनीभूतद्रव्ये अप:संयवनं तदर्थः लक्षणापत्तेः । अथ प्रणयनादेः संस्कारस्य श्रुतित एव लाभाच्छुतौ च संयवनार्थतैव दृष्टेति चेत् । प्रणीतायाः संयवनार्थत्वे उपसदि संयवनव्यतिरेकात्प्रणीताया अपि व्यतिरेकः प्रस्तज्येत । तथाच प्रसंजितत्र्यतिरेकप्रतियोग्युल्लेखं सूत्रकृन्न कुर्यात्कृतवांश्च तदुल्लेखं प्रणीताद्युपसदिति सूत्रकृत् । किंच सविधे पशौ प्रणीताव्यतिरेकेपि ॠतुनिर्वाहसंदर्शनात्संयवनरूपदृष्टार्थताऽदृष्टसाधारणार्थता वेत्येतदविचाररमणीयम् । किं चापः प्रणयतीत्युपक्रम्य ततो देवा एतं वज्रं ददृशुर्यदप इत्याधर्थवादपर्यालोचनया विघ्ननिवर्तकत्वं प्रणीतायाः प्रतिपाद्यत इति प्रतीयते । तच्च साक्षान्न संभवतीत्यदृष्टमेव व्यापार इति सिद्धं शतपथश्रुतित एव प्रणीतायाः अदृष्टार्थत्वम् । 'परिस्तीर्य' प्रागमैरुदगश्च तृणैरभेः परिस्तरणं कृत्वेत्यर्थः । प्राच्यां प्रथममुद्गणैः प्रक्षेपः । दक्षिणतः प्रागभैः । ततः प्रतीच्यामुद्गणैः । तत उदीच्यां प्रागमैः । 'अर्थवदासाद्य' अर्थः प्रयोजनं तद्वत्पात्रसमुदायमासाद्य स्थापयित्वा प्रारब्धक्रियास्तोम निष्पादकनिःशेषसामग्रीनिष्पादनं कुर्यादित्यर्थः । तद्यथा पवित्रच्छेदनानि त्रीणि, पवित्रे द्वे, प्रोक्षणीपात्रं, चर्वादिमति चरुस्थाली, संमार्गकुशाः, उपयमनकुशाः, समिध:, स्रुवः, आज्यं, सण्डुलाः, वर्हिः पूर्णपात्रं, वरो वा । दर्विहोमेषु पाकयज्ञेषु पक्षादिप्रभृतिषु पौर्णमासधर्माणां कात्यायनचरणैरतिदिष्टत्वात्प्रकृते च पाकयज्ञानां परिभाषासूत्रार्थस्य पर्यालोच्य - मानत्वादतिदेशप्राप्ताः ग्रहणासादनप्रोक्षणादयः पौर्णमासधर्मा अपि लिख्यन्ते । नन्वेत एव कथं स्थालीपाप ग्रहणासादनप्रोक्षणानि मंत्रदेवताभ्य इति शाङ्खायनोक्तेः । तेन स्स्योपहितमोषधीकरणम् । ततः चर्वादिग्रहणम् अमुष्यै देवतायै जुनं गृह्णामीत्येवं मुष्टित्रयम् । चतुर्थसंख्यापूरणी मुष्टिं विनैव मन्त्रं गृहीयात् । यथादैवतमन्यत् । चर्चादेखिखिः क्षालनं ततः वाग्यमनम् | 'पवित्रे कृत्वा ' कुशौ समावप्रशीर्णामावनन्तर्गभौं कुशैः छित्त्वेत्यर्थः । न नखैः, शाखान्तरे निषिद्धत्वात् । 'प्रोक्षणीः संस्कृत्य ' प्रोक्षणीरिति जलवाचिपदम् । ताः संस्कृत्येत्यर्थः । प्रोक्षणीसंस्कारश्चैवम् । आदौ प्रोक्षणीपात्रे नीरप्रक्षेपः, ततः पूर्वसंपादितपवित्राभ्यामुत्पवनं, पात्रस्य ततः सव्यहस्ते निधानं, दक्षिणेनोदिङ्गनं, ताभिरेव तासां प्रोक्षणमिति । 'अर्थवत्प्रोक्ष्य' अर्थः प्रयोजनं तद्वत् । स्मृतिबोधितप्रारब्ध क्रियासंपादकं चर्वादि घृतादिकं पात्रादिकं च सर्व प्रोक्षणीनामधेयाभिरभिषिच्येत्यर्थः । तथाच दक्षिणहस्तोपात्तप्रोक्षणीभिः समयं पात्रसमुदायं सकृदेव प्रोक्षणीयमित्यर्थः । श्रुतौ शुन्यध्वमिति मंत्रलिङ्गात् । अत्राह कर्क:- प्रोक्षणस्य पात्रोद्देशेन विधानात्पात्राणां च संस्कार्य, स्वात्प्रतिसंस्कार्य संस्कारावृत्तेर्व्याय्यत्वात्प्रतिपात्रं प्रोक्षणमिति । श्रुतावुद्देश्यगतं बहुत्वं न विवक्षितमिति । नैतदपि विचारसहं, तथाहि--क्रमावेदकमानापेक्षा तत्रैव यत्राशक्यानुष्ठानमनेकविषयमेकं कर्म । नचैतत्प्रकृते । सकृदेव सर्वेषां प्रोक्षणस्य शक्तिगोचरत्वात् । अथासादनकालीनक्रमरूप विशेषाश्रयादेकत्वप्रतीतिरिति चेत्तर्हि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावादेकस्यैव प्रोक्षणं भवेत् । अथ सर्वेषां संस्कार्यत्वादावृत्तिराश्रयणीयेति चेत्, तर्हि किमर्थमुक्तमुद्देश्यगतमनेकत्वं न विवक्षितमिति । तदा हि फलवत्य विवक्षा स्यात् यदैकत्वद्वित्वान्यतरसंख्यावच्छिन्नस्य सामर्थ्यात्प्राप्तौ सत्यां वहुत्वसंख्यावच्छिन्नस्य शब्दबोध्यस्याविवक्षामाश्रित्य सामर्थ्याक्षेपायथा प्राप्तेषु सर्वप्रहेषु संमार्गोङ्गीक्रियते ।