________________
पारस्करगृह्यसूत्रम् ।
[प्रथमा नवीनास्तु नानार्था (ध्य) वसायार्थ सकृत्योचरितमपि पदमनेकार्थप्रत्यायकं भवत्येव । तात्पर्यज्ञानस्य शा. ब्दबोधहेतुत्वादित्याहुः । यत्तु प्रश्नार्थोऽयमथशब्द इति । तन्न । संदेहजिज्ञासामूलकत्वात्मनस्य । प्रकृते च संदेहाभावात् । अनध्यवसायमूलकः प्रश्नश्चेत् । न । अतःशब्दानन्वयापत्तेः । केचित्तु क्रमतात्पर्यकतामाहुः । तदपि न । प्रधानफलफलकत्वेनाऽङ्गानां फलोत्पत्तौ प्रधानमुपकर्तुं प्रवृत्तानां युगपदनुष्ठानाशक्यत्वेन क्रमाकाडायामथैनावित्यादिनोपात्तोऽथशब्दः वस्त्रपरिधानाद्यानन्तर्यमञ्जनादेर्वोधयितुं समर्थो भवेत् । तच्च न । पूर्वोपक्रान्तपदार्थाभावात् । नन्वेत्रमानन्तर्यार्थतां वर्णयत. का गतिः । किंच क्रमतात्पर्यकतायां तत्कालजातकर्माधकरणदोषः । व्यवधानेऽपि क्रमभङ्गाभावात्क्रमातैव युक्तेति चेत् । न। अव्यवधानार्थमेवानन्तर्यार्थसमायणात् । विवाहानन्तरमावसथ्यमिति । अन्यथा आधाने कालवाधेऽपि दोपाभावेन प्रायश्चित्तादिकर्तव्यतावोधकविधेरप्रामाण्यप्रसङ्गः । अतःशब्दो हेत्वर्थः । अधिकारिणा आधानाद्यविलम्बेन कर्तव्यमिति यतः प्रतिपादितमतस्तस्याधानादिसकलकर्मानुष्ठानाय गृह्यस्थाली.. पाकानां कर्म मया प्रोच्यत इत्यन्वयः । मशकनिवृत्त्यर्थ धूमार्थिनो हेतुत्वेन वह्नयुपादानवत् फलार्थ स्मृत्यर्थाधनुष्ठानार्थिनो हेतुत्वेन ग्रन्थोपादानम् । धूमे वह्निवत्तदर्थानुष्ठाने सूत्रस्यापि हेतुत्वमतःशब्दार्थः । केचित्तु यतःौतान्युक्तान्यतस्तत्राधिकार(पशुन्यायेना?शून्यस्य)धिकारसंपादकतया स्मार्तानि वक्तव्यानिाअतो हेतोर्गृह्यस्थालीत्यायन्यथा हेत्वर्थतामतःशब्दस्य वर्णयन्ति ।गृहं गृहिण्यन्वितम्। तत्र भवो गृह्यः। स्थाल्यां ताम्रादिनिर्मितायां तण्डुलादेः पाकः स्थालीपाकः । गृह्यश्चासौ स्थालीपाकः तेपामित्यर्थः । अत्र व्याख्यास्यत इत्यध्याहारं वर्णनन्तः हरिहरादयः प्रष्टव्यास्तावदेपा कस्य प्रतिज्ञा । सूत्रकर्तुळ तेषां वा। न तावदाद्यः । आचार्येण कस्याप्यख्यानात्।न द्वितीयः। अनभ्युपगमात् । अध्याहारानुपपत्तेश्चेति दिक् । एवं च गृह्यस्थालीपाकानां यत्कर्म तत्कथमनुष्ठेयमित्याकाडायामावसथ्यादिसकलकर्मसाधारणी परिभाषामा । परिसमुह्य ' जलैरिति शेषः । 'उपलिप्य' गोमयेनेति शेषः। 'उल्लिख्य स्फ्येनेति शेषः। 'उद्धृत्या अनामिकाङ्गुष्ठाभ्यामिति शेषः । 'अभ्युझ्या पवित्रोदकेनेति शेषः। एते च स्थालीपाकाद्यङ्गम् । 'अग्निमुपसमाधाय आवसथ्यामिहोत्राद्यग्निमिति शेषः । कथमेतत्सामान्ये प्रमाणपक्षपात इति न्यायादिति चेत् । न लौकिकविषये पञ्चसु बहि:शालायामित्यारभ्य उपलित उद्धतावोलितेऽग्निमुपसमाधाये. त्यस्यापवादस्याचार्येण सूत्रणादुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधायेत्ययमपवादः परिसमुह्येत्याद्युत्सर्गविधि बाधते । यद्वा मास्तु प्रकृते सामान्यविशेषभावः तथापि विवाहप्रकरणे त्रयाणामेव संस्काराणामुपादानादेते पञ्च संस्कारा अग्निहोत्रादिविषया एवेति ज्ञायते । अन्यथोपलिप्त इत्यादीनां संभारवदाधिक्यापत्तिरिति ध्येयम् । दक्षिणतो ब्रह्मासनमास्तीर्य, अग्नेर्दक्षिणतः ब्रह्मणा उपलक्षितं आसनं तत्र आस्तरणं वस्त्रादि ब्रह्मासनास्तरणं तत्कृत्वेत्यर्थः । यद्वा पञ्चाशद्धिः कुशैब्रह्मेत्युक्तत्वात्पञ्चाशत्संख्याककुशबटुं वा स्थापयित्वेत्यर्थः । नतु साक्षाद्ब्रह्मणः उपवेशनम् , दक्षिणतो ब्रह्माणमुपवेश्येति चतुर्थीकर्मणि सूत्रणात् । कारिकाकारोपि। अचेतने ब्रह्मशब्दः कुशमुष्टौ च वेदवत्। कुशानां संनिघे(?) युक्तः समास्तीति लिङ्गतः । कर्काचार्यास्तु सर्वत्र साक्षादेव ब्रह्मणः उपवेशनं, नच दक्षिणतो ब्रह्माणमुपवेश्येत्यनेन पौनरुक्त्यं, तस्याक्सरज्ञापनार्थत्वादित्याहुः । तदपरे दूषयन्ति । स्थालीपाकश्रपणपूर्वकालता ह्यवसरः, स चोत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाकं अपयित्वेत्यनेनैव लभ्यते, पूर्वकालतायाः समानकर्तृकयोः क्त्वावाच्यत्वात् । क्वाप्रत्ययार्थो ह्युत्तरकालता । तथाच उदपात्रं प्रतिष्ठाप्य स्थालीपार्क अपयित्वेत्यनेन स्थालीपाकअपणस्योदपात्रस्थापनोत्तरकालता बोध्यते । तेन स्थालीपाककरणमाकालतायाः क्त्वाप्रत्ययादेव लाभाब्यर्थ तदर्थं दक्षिणतो ब्रह्माणमुपवेश्येत्येतत्सूत्र स्यादत एवं ज्ञायते-चतुर्थीकर्मादौ यत्र साक्षाद्ब्रह्मोपवेशनमुक्तं तत्रैव प्रत्यक्षब्रह्मोपवेशनं नान्यत्रेति वदन्ति । 'प्रणीय' अप इति शेषः । अग्नेरुत्तरत: कौशं पूर्वापरमासनद्वयं प्रकल्प्यापरासने उदपूर्ण चतुष्कोणं चमसं निधायालभ्य