________________
कण्डिका
प्रथमकाण्डम् । (५) विश्वनाथकृता गृह्यसूत्रप्रकाशिका | गर्गसिद्धान्तपमानां प्रकाशोदयहेतवे । मार्तण्डाय नृसिंहाय पित्रे श्रीगुरवे नमः ॥ १॥ गङ्गादेवीमहं वन्दे ज्ञानदा मातृरूपिणीम् । जातं यस्याः पयःपानात्सरस्वत्यवगाहनम् ॥ २॥ पारं शास्त्रसमुद्रस्य लध्वैतल्लिख्यते यतः । स्वकल्पितत्वशङ्काऽत्र न कार्या विवुधैरितः ॥३॥ तर्कशास्त्रं च मीमांसा यदक्षायै प्रयोजिते । तातैस्तमपि वन्देऽत्र गर्ग वेदार्थवित्तमम् ॥ ४॥ अधीत्य सकलं शास्त्र श्रीनृसिंहाजगद्गुरोः।
तन्यते विश्वनाथेन गृह्यसूत्रप्रकाशिका ॥ ५ ॥ अर्थतनाप्यं नारब्धव्यं विषयाभावात् । तथाहि । तत्ति सूत्रार्थप्रकाशकं वा सूत्रादनधिगतार्थवोधकं वा सूत्राविविक्तविवेचकं वा सूत्रापेक्षितपूरकं वा । न तावत्प्रथमः कल्पः। आवसथ्याधानं दारकाल इत्यादिसूत्राणां स्पष्टार्थत्वात् । न द्वितीयः । शाब्दो हनववोधः शब्दानुपादानमूलस्तथा च येनार्थस्य प्रकारान्तरलभ्यतामधिगत्य ग्रन्थगौरवाद्वा स्वल्पं सूत्रितं तेन भाष्यपूरितापेक्षयाऽधिकं न त्यक्तमित्येवं कः समाश्वसेत् । कथं वाऽतीतानागतद्रष्टा आचार्यः सूक्ष्मदर्शी मांसलधीसापेक्ष वदेत् । नचाऽज्ञ एव स इति वाच्यं, वैपरीत्यस्यैव सुवचत्वात् । प्रत्यक्षीकृतधर्ममूलकत्वेन सूत्रस्यानादीनवत्वेन न तदुपायस्यानादीनवत्वं पौरुपेयत्वेनादीनवत्वात् । नापि तृतीयः । नहि किंचित्सूत्रं स्वरूपत एव गूढम् । अपि तु बुद्ध्यधीनं तत् । तथा च दोषाविच्छेदादनवस्यैव पर्यवस्येत् । नापि तुर्यः । अधिकारिणां स्मृत्यर्थानुप्ठानाय प्रवृत्तः कथं भाष्यसापेक्षं वदेत् । वदन्वा पूर्वोक्तप्रसक्तिरेव कथं न ग्रासीकुर्यादिति प्राप्ते ब्रूमः । सूचनात्सूत्रं लिङ्गोपन्यासादितिपञ्चम्यन्तार्थः। तदुक्तं सूचनात्सूत्रमत्रोक्तं सूचनं लिंगभाषणम् । तन्मात्रं साधकं न स्याद्विना साध्यप्रयोगतामिति । तथाच तत्सूचितार्थद्योतकेन भाग्येण भाव्यमिति । यत्रोक्तं स्पष्टार्थत्वादिति तदपि न । सर्वेषां नह्याहरणारणेयपक्षयोायधौरैयमन्तरेण सिद्धान्तकोटिरधिगंतुं शक्या। तथाच न्यायगांगर्भसकलसूत्रार्थद्योतकेनावश्यं भाष्येण भाव्यमिति । नच वक्तव्यं न्यायाधीनकतैव्यतावोधकत्वान्न्यूनत्वं । सूचनत्वलक्षणसूत्रत्वन्याकोपादिति । केचित्तु श्रुतिस्त्रभावत्वात्सूत्रेष्वपि विध्यर्थवादविवेकार्थ न्यायापेक्षेति । तन्न अर्थवादोपरक्तत्वे श्रुत्यभेदापत्तेः । नचेष्टापत्तिः । संज्ञाभेदानुपपत्तेरिति । यञ्चोक्तं द्वितीयपक्षे दुष्टमूलकस्य दुष्टत्वापत्तिरिति । तन्न आर्पयत्वेनाकरस्यादुष्टत्वादिति । तद् न्यायनिरूपणाच न तदुपायोऽपि दुष्ट इति नाप्रामाणिकत्वम् । एतेन विपक्षोऽपि निरस्तः । तृतीयपक्षे नाप्यनवस्था ।न्यायादर्थाधिगमनं व्युत्पन्नस्याकाङ्कानुदयात् । अत एव न तुर्योऽपि । सूत्रस्योपायापेक्षायाः व्युत्पादितत्वादिति । नन्वस्तु तावद्भाष्यापेक्षा तथापि हरिहरादिभाष्यादिभिरेव तदर्थसिद्धेः किमर्थमिदमारभ्यत इति चेत् । तत्किमेकस्मिन्सत्यपरं व्यर्थमिति यदि ब्रूषे तदा साधु समर्थितं हरिहरस्य प्रामाण्यम् । कर्कादिना तस्यापि तथा वक्तुं शक्यत्वात् । अथ विशेषाप्रतिपादकत्वे तथात्वं प्रोच्यते । हरिहरादेस्तु विशेषप्रतिपादकत्वान्न व्यर्थतेति चेत् । न । प्रकृतेऽपि विशेषाप्रतिपादकत्वस्य दुर्वचत्वादि. त्यलमतिविस्तरेण । तथाच प्रकृतेऽयारम्भसामन्याः विद्यमानत्वादारभ्यते भाष्यम् । 'अथातो गृह्यस्थालीपाकानां कर्म प्रोच्यत इति सूत्रशेपः । अत्रायमथशब्दः आनन्तर्य मङ्गलं च वोधयति । नच सकृदुचरितस्य सकृदर्थगमकत्वमिति विरोधः । गत्यानन्तर्यमानं बोधयति । श्रवणान्मङ्गलमिति संप्रदायः।