________________
१२
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
किंच विवक्षितमविवक्षितं वेति जिज्ञासाऽपि तत्रैव यत्र कर्तृकालदेशफलसंस्कार्याणां विधिवोधिता भिन्ना संख्या, भिन्ना च सामर्थ्याक्षिप्ता । नचैवं प्रकृते । तस्मान्मन्त्रात्मकवेद्गतं बहुत्वं न विवक्षितमित्येतद्रिक्तं वचः । अथासादनक्रमदर्शनसंजातः प्रोक्षणेऽपि क्रमसंशयो विना प्रमाणं कथमपनेय इति चेत् । तर्हि युगपदने प्रोक्षणस्य लाघवात्प्राप्तौ क्रमे किं प्रमाणमिति विपरीता प्रमाणापेक्षा । अथ सुहद्धावेन पृच्छामि विना प्रमाणं कथं संशयोऽपनेय इति । सर्वपात्राणां युगपत्प्रोक्षणे शक्यानुष्टाने किं सकृदेव कर्तव्यं किंवा आसादने क्रमदर्शनात्क्रम आश्रयणीय इति । शब्दावगम्येर्थे शब्द एव प्रमाणं नान्यदिति मन्त्रलिमेव प्रमाणं, शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति न्यायादिति । एतेन प्रोक्षण कर्तव्यतावोधकवेदविनियुक्तमन्त्रस्मारितबहुत्वस्य कथमुद्देश्यगतत्वं साक्षादुद्देश्यगतस्य पूजार्थतां नोपपादयाम इत्यपास्तम् । क्रियाहेत्वर्थस्मारकमन्त्रगत बहुत्वस्याप्युद्देश्यगतबहुत्वतात्पर्यकत्वात् । यत्परः शब्दः स शब्दार्थ इति न्यायात् । तथापि प्रतिसंस्कार्य न्यायाकृष्टा संस्कारावृत्तिः कथमपहस्तयितुं शक्येति चेत् । न । त्रीहीन्प्रोक्षतीत्यत्र त्रीहीणामपि संस्कार्यत्वात्प्रतित्रीहिप्रोक्षणापत्तेः । नतु चरुपुरोडाशा
कहां सकृदेव प्रोक्षणं कुतो नेति चेत् । तद्यस्यै देवतायै हविर्भवति तस्यै मेध्यं करोतीति देवतोद्देश्य हविः संबन्धेन प्रोक्षणसंवन्धं दर्शयन्ती श्रुतिरेवात्र प्रमाणमित्युत्तरदानं यथा, तथा यज्ञपाआणि प्रोक्षति न्याय कर्मणे शुन्धध्वमित्येवमाकारा सकृत्प्रोक्षणादेः श्रुतिरेवात्र प्रमाणमिति किं पुनवतोमुना विवविक्रोशमात्रेण । अपरे तु पात्राणि प्रोक्षति श्रीहीन्प्रोक्षतीत्यादौ पात्रत्रीह्यादेः संस्कातामेव नाङ्गीकुर्मः । तथाच कथं प्रतिसंस्कार्य संस्कारावृत्तिः । तत्र परेपामयमाशयः --त्रीही प्रोक्षतीत्यादी व्रीह्यादेस्तावत्प्रोक्षणादिकर्मता प्रतीयते । सा च तत्फलाधारस्वव्यतिरेकेणानुपपद्यमाना श्रीह्मादेस्तत्फलाधारतां वोधयति । कथमन्यथा प्रोक्षितानामेवावघातादावुपयोगः । प्रोक्षणस्य चिरध्वस्तत्वात् । नच प्रोक्षणमुपलक्षणं तध्वंसो वा व्यापार इति वक्तुं शक्यम् । यागादी तथाभावप्रसंगेनापूर्वकल्पनाया अभावप्रसङ्गात् । चेतनस्य संस्कार्यत्वे व्रीहेः कर्मता न स्यादित्युक्तम् । तथाच पात्र - श्रीह्यादिपु कर्मत्वान्यथानुपपत्तिप्रसूतार्थापत्त्या पात्रादेः संस्कार्यतायामावेदितायां प्रतिसंस्कार्य संस्कारावृत्तिरपि न्यायसमर्पितैवेति तेपां निगर्वः । अत्र वदन्ति । प्रोक्षणादिजन्योऽतिशयः यागजन्यातिशयसमानाधिकरण एव कल्प्यते लाघवात् । नच चेतनस्य संस्कार्यत्वे व्रीहेः कर्मत्वानुपपत्तिः । प्रोक्षणजन्यसंयोगरूपफलभागित्वेनैव तदुपपत्तेः । नच संयोगावछिन्नक्रियाविशेपस्यैव प्रोक्षणपदार्थतेति वाच्यम् । ग्रामं गच्छतीत्यादौ ग्रामादेस्ताहशक्रियानाधारत्वेन कर्मत्वानुपपत्तिप्रसङ्गात् । तस्माद्यथा क्रियाविशेपणीभूतसंयोगाधारतया प्रामादेः कर्मत्वं तथा प्रकृतेऽपीति । कथमन्यथा सक्तून्प्रोक्षतीत्यादौ लौकिकप्रोक्षणे सक्तूनां कर्मता । किंच त्रीहीन्प्रोक्षतीत्यत्र श्रीहेः प्रोक्षणजन्यसंस्काराश्रयत्वे कल्प्यमाने किं प्रतिव्रीहिव्यक्ति आवृत्तयो भिन्ना: त्रीहिसमसंख्याः संस्काराः कल्प्यन्ते यद्वा तावद्रीहिव्यक्तिवृत्त्येक एव वा । न तावदाद्यः गौरवात् । न द्वितीयः किंचिद्वीहिनाशात्तन्नाशे अवशिष्टनीहरुतत्रोपयोगोऽवधातादौ न स्यात् । नच यावदाश्रयनाशः प्रयोजक इति वाच्यं, गौरवात् । तस्माच्चेतन एव संस्कार्यः । एवं च चेतनसमवेतसंस्कारेण स्वरूपसवन्धाद्वा व्रीहेः कर्मत्वमिति न किंचिदनुपपन्नमित्याहुः । 'निरुप्याज्यं' । कुनैरसत्स्वितिकात्यायनोक्तेः कुशोपग्रहः सन् आज्यस्थात्यामाज्यं प्रक्षिपेदित्यर्थः । 'अविश्रित्य ' अग्नेरुपरीति शेषः । प्राक्सूत्रादाज्यपदानुवृत्तिः । उपलक्षणमेतत् । तथाच चर्वाद्यविनाभूतक्रियायां चर्वादिकमप्यधिश्रित्येत्यर्थः । ' पर्यग्नि कुर्यात् अधिश्रितघृतचर्वादेः परित एक ज्वलदुल्मुकं प्रादक्षिण्येन भ्रामयित्वाऽप्रदक्षिणं कर्मानयेदित्यर्थः । ततः श्रपणम् । स्रुवं प्रतन्य । अर्धते चर्चादौ स्पयोपग्रहः । ' स्रुवं प्रतप्य ' खादिगेऽरत्निमात्रः सुवोऽङ्गुष्ठपर्ववृत्तपुष्करः । स्पयोऽस्याकृतिः । कात्यायनप्रणयनात | 'संसृज्य' कुरिति शेषः । ते च त्रयः पञ्च सप्त वा आचारात् । 'अभ्युक्ष्य' प्रोक्षणीनां