________________
१३
कण्डिका]
प्रथमकाण्डम् । क्लप्तत्वात्तजलेनेति शेपः । 'पुनः प्रतप्य' पुनःपदोपादानात्लुवमिति शेपः । 'निदध्यात् ' स्थापनीयचर्वादेर्दक्षिणत इत्यर्थः । 'आज्यमुद्रास्य' कुशोपग्रहः घृतमुदीच्यामवतायेंत्यर्थः । तत: प्रोक्षण्यपरेण निधानम् । 'उत्पूय' पवित्राभ्यामिति शेषः । 'अवेक्ष्य' आज्यमिति शेषः । 'प्रोक्षणीश्च पूर्ववत्' पवित्राभ्यामुत्पूयेत्यर्थः । प्रोक्षण्यादानं समिद्वित्रंसनं पक्षाद्यादिष्वष्टादश अन्यत्र विंशतिः । समियोक्षणं, वेदिप्रोक्षणम् । अग्नेरपरस्यामुदगग्रस्य वर्हिपः प्रोक्षणम् । सशेपो मूलावसेकः । प्रोक्षणीपात्रनिधानं, वर्हिवन्धनमास्तीर्य कुशैरवच्छादनम् । त्रिवृत्स्तरणं वर्हिपः । शृतस्य चर्वादेरमिघारः । उद्धासनं शृतानां तु पूर्वेण उद्वासितानां तु पृष्ठतः । आज्यादुत्तरस्यां क्रमेण निधानम् । क्रमेण चर्वादौ प्राणदानम् । वेद्यां वर्हिषि आज्यादिक्रमेण निधानम् । ' उपयमनान्कुशानादाय ' उपयमनसंज्ञकान्कुशान् दक्षिणहस्तेन गृहीत्वा सव्ये कृत्वा । 'समिधोऽभ्याधाय' तिष्ठन्सप्तदशसमिधः विकृतौ प्रकृती पक्षादिपु पञ्चदश समिधः । अग्नौ प्रक्षिप्य सर्वेषु कर्मप्रतिश्रुतादिषु प्रादेशमात्रीः पालाशीः समिधः सप्तदश हुत्वा पश्चात्सुवग्रहणं, पूर्णमासयोः पञ्चदशेति शाङ्खायनसूत्रात् । 'पर्युक्ष्य ' दक्षिणहस्तोपात्तेन सपवित्रेण प्रोक्षणीजलेन अग्निमिति शेषः । प्रोक्षणीपात्रं च संस्रवधारणाथै प्रणीताग्न्योरन्तरा स्याप्यम् । 'जुहुयात् ' आघाराज्यभागादिनामधेयाः आहुतीरिति शेषः । एष एव विधिर्यत्र कचिद्धोमः' एषः परिसमूहनादिपर्युक्षणान्तो विधिः क्रियाकलापः । एवकारस्तु प्रणयनादिक्रियाकलापे कस्त्वेत्यादिमत्रजन्यार्थस्मृते: करणत्वव्यवच्छेदार्थः । इयं परिभाषा ॥ १ ॥
आवसथ्याधानं दारकाले ॥१॥ दायाद्यकाल एकेषाम् ॥ २ ॥ वैश्यस्य बहुपशोहादमिमाहत्य ॥ ३ ॥ चातुष्प्राश्यपचनवत्सर्वम् ॥ ४ ॥ अरणिप्रदानमेके ॥ ५ ॥ पञ्चमहायज्ञा इति श्रुतेः ॥ ६ ॥ अग्न्याधेयदेवताभ्यः स्थालीपाकश्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ॥ ७ ॥ त्वन्नोऽअग्ने सत्वन्नोऽअग्न इमम्मेवरुण तत्वायामि ये ते शतमयाश्वान उद्धुत्तमं भवतन्न इत्यष्टौ पुरस्तात् ॥ ८ ॥ एवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति ॥ ९ ॥ स्विष्टकृते च ॥ १० ॥ अयास्यग्नेर्वषट् कृतं यत्कर्मणात्यरीरिचं देवागातु विद इति ॥ ११॥ बहिर्तुत्वा प्राश्नाति ॥१२॥ ततो ब्राह्मणभोजनम् ॥ १३ ॥ ॐ ॥ २॥
(कर्कः)-गृह्यस्थालीपाकानाङ्कर्म प्रक्रान्तमतो गृह्यस्यैवोत्पत्त्यर्थमिदमाह । आक्सथ्याधान दारकाले' इति आवसथ्यो गृह्यः शालाग्निरित्यनान्तरं तस्याधानं स्यापनमात्मसात्करणमिति यावत् तद्दारकाले भवति । दारशब्देन पाणिग्रहणादिसंस्कारसंस्कृतं स्त्रीद्रव्यमभिधीयते । तस्याहरणकालो दारकालस्तत्र । केचित्तु पाणिग्रहणात्यागिच्छन्ति गृह्यकारान्तरवचनात् । एवं हि तेनोक्तम् । जायायाः पाणिजिघृक्षन्नादधीतेति तत्पुनातीव युक्तरूपम् । येनाद्याप्यसंस्कृतमेव स्त्रीद्रव्यम् , नचासंस्कृतं तत्सहायतां प्रतिपद्यते, ससहायस्य च कर्मस्वधिकारः । मध्यगं हि दम्पत्योर्द्रव्यन्नैकः श. कोति परित्यक्तुम् । पत्न्यपि च तेन विनाऽनधिकृतैव, तस्मात्ससहायस्याधिकारः। तथाच लिङ्गम् । असो हि तावद्भवति यावज्जायान्न विन्दत इति, अतः संस्काराभिनिवृत्त्युत्तरकालं दारकालः । अपि च स्मरन्ति तमेव दारकालम्प्रकृत्य धर्मे चार्थे च कामे च तया सह नातिचरितव्यमिति । पूर्वञ्च