________________
१४
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
क्रियमाणे आधाने एकाकिनाऽग्निराहितो भवति, तथा सत्यविचारः स्यादिति । तस्माच्चतुर्युत्तकान्दारकाल इति सम्प्रदायः । यत्पुनरुक्तम् । वैवाहिकेऽमौ कुत गार्ह्य कर्म यथाfafa | पञ्चयज्ञविधानश्च पक्तिभ्वान्वाहिकीं गृहीति, तद्विवाहसम्बन्धादुत्तरकालमपि क्रियमाणोऽसौ वैवाहिको भवत्येव । ( 'दायाद्यकाल एकेपाम् ' एकेषामाचार्याणाम्मले दायाद्यकाले कर्तव्यम् । दायाद्यकालश्च भ्रातृणान्धनविभागकालः, तस्मिन्हि काले स्वेन द्रव्येण कर्मानुष्ठानसमयों भवति । साधारणद्रव्यस्य हि परित्यागासामर्थ्यादनधिकार एव, अतोऽयं व्यवस्थितविकल्पः । अभ्रातृकस्य दारकाले भ्रातृमतो terrora इति । 'वैश्यस्य त्सर्वम्' हुतोच्छिष्टोऽभिरत्र गृह्यते असंस्कृतो वा अविरोधात् । 'अरणिप्रदानमेके ' एके आचार्या अरणिसम्बन्धमिच्छन्ति, अरणि: प्रसिद्धा, प्रशब्द उपशब्दार्थे उपादाने च वर्तते । अरण्युपादानमेकेऽभिमिच्छन्ति, एके वैश्यस्य कुलादित्युभयोर्विकल्पेन स्मरणम् । तत्र चातुष्प्राश्यपचनवत्सर्वकर्म कर्तव्यम् । चातुष्प्राश्यपचनं यस्मिन्कर्मणि विद्यते तदिहापि सर्वम्भवति । कुत एतत् । ' पञ्चमहायज्ञा इति श्रुतेः' पञ्च महायज्ञा हि श्रुतौ पञ्चन्ते त त्साधनभूतश्चायमभिः । श्रौतकर्मसाधनभूते चाग्नौ चातुष्माश्यपचनवतीतिकर्तव्यता दृष्टा । अयमपि श्रौतकर्मसाधनभूत एवेत्यभिप्रायः । तस्माच्चातुष्प्राश्यपचनवतीतिकर्तव्यताप्रवृत्तिरत्रापि । अपिचाधाने सेतिकर्तव्यता दृष्टा इदमपि चाधानमेव । एवं हि श्रूयते एतदेव प्रकृत्य अथैनं वयन्त्वेव धास्यामह इति । तेनाधानसामान्यादिहापि प्रवर्तत एवेति । एवं स्थित उच्यते, एके आचार्या नेच्छन्त्यत्र चातुष्प्राश्यपचनवतीतिकर्तव्यताम् । यत्कारणम् । उपदेशेन वा धर्मः प्रवर्तते अतिदेशेन वा । न चात्रोपदेशो न चातिदेशः । तस्मान्नैव प्रवर्तते । कथन्तर्हीदमुक्तम् । यस्य नाम श्रौतकर्मसाधनभा
धानसामान्याद्वा प्रवृत्तिबुद्धिस्तन्निवर्तयितुमित्यदोपः । गृह्यकारान्तरैश्वानयैव भ्रान्त्या इयमिति कर्तव्यतोपदिष्टा तन्निराकरणायेह पूर्वपक्ष उपन्यस्तः । ' अन्या - इत्यष्टौ ' स्थालीपाकं श्रपयित्वा इत्युच्यते माभूत्तद्भूतोपादानम् । अग्न्याधेयदेवताभ्य इति च वक्तुमशक्यम्, वक्ष्यत्यग्न्याधेयदेवताभ्यो हुत्वा जुहोतीति । उक्तञ्च तत्किमर्थम्, बहुत्वविशिष्टानामत्र देवतास्त्रं यथा स्यादिति । किञ्च स्यात् अन्यायदेवतेस्तव, तयोरेव देवतात्वम्माभूदिति पुनर्ग्रहणाच्च वह्नीनान्देवतात्वम् । आज्यभागाविवाज्याहुतीर्जुहोतीति किमर्थमिदमुच्यते । आघारादीनाञ्चतुर्दशान्याहुतीनाक्रम उक्तः तत्राष्टाज्याहुतीनामवसरविधानार्थमाज्यभागग्रहणम् । अष्टग्रहणश्च मन्त्रप्रतीक संशयव्युदासार्थम् । अष्टौ पुरस्वादाज्याहुतीर्जुहोत्यग्न्याधेयदेवता होमस्य । ' एवमु - रिति ' स्थालीपाकस्येत्यवयवलक्षणा पष्ठी । अग्न्याधेयदेवताभ्यो हुत्वा एवमुपरिष्टादष्टावेव आज्याहुतीर्जुहोति । हविरन्तरे सति प्राड्महाव्याहृतिभ्यः स्विष्टकृद्धोमो विहितः तस्मै हुत्वा, चशब्दादाज्याहुतिजुहोति मयात्यग्नेरित्यनेन मन्त्रेण ।' वर्हिर्हत्वा प्राश्नाति ' वहिहोंमचात्रैव विधानसामर्थ्यादिहैव वचनान्नान्यत्र । ' ततो वाह्राणभोजनम् ' एकद्विबहुपु समासस्य तुल्यत्वादेकस्मिन्नपि चार्थस्य कृतत्वादेकस्यैव भोजनमिति ॥२॥
( जयरामः ) - गृह्यस्थालीपाकानां कर्म प्रक्रान्तम् अतो गृह्यस्यैवार्थमिदमाह । 'आवसयाधानमिति ' आवसध्यो गृहाः शालाग्निरिति पर्यायाः । तस्याधानं स्थापनम् आत्मसात्करणमिति यावत् । तत्कदा भवतीत्यपेक्षायामाह । ' दारकाल इति ' दारशब्देन पाणिग्रहणादिसंस्कार संस्कृतं स्त्रीद्रव्यमभिधीयते तस्याहरणकालो दारकालः । तत्र केचित्तु पाणिग्रहणात्प्रागिच्छन्ति । गृह्यकारान्तरवचनात् । एवं हि तेनोक्तम । जायायाः पाणि जिघृक्षन्नादधीतेति । तत्पुनर्नातीव युक्तरूपम् । यतस्तदाऽसंस्कृतमेव स्त्रीद्रव्यं, न चासंस्कृतं तत्सहायतां प्रतिपद्यते, ससहायस्य च कर्मस्वाधिकारः, उभयस्वामिकं हि दम्पत्योर्द्रव्यन्नैकः शक्नोति परित्यक्तुम् । पत्न्यपि तेन विनाऽनधिकृतैव, तस्मात्ससहायस्याधिकारः । तथाच लिङ्गम् । असर्वो हि तावद्भवति यावज्जायान्न विन्दते । अतः संस्काराभि•