________________
१५
कण्डिका]
प्रथमकाण्डम्। निवृत्त्युत्तरकालं दारकालः । अपि च स्मरन्ति तमेव दारकालं प्रकृत्य धर्मे चार्थे च कामे च नातिचरितव्यमिति । पूर्व च क्रियमाणे आधाने एकेनैवाग्निराहितो भवति । तथासत्यतिचारः स्यात् , तस्माचतुर्युत्तरकालमेव दारकाल इति सम्प्रदायः । यत्पुनरुक्तम् , वैवाहिकेऽग्नौ कुर्वीत गाी कर्म यथाविधि । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकी गृहीति । तद्विवाहसमनन्तरं क्रियमाणोऽसौ वैवाहिक एव । 'दायाद्यकाल एकेपाम् ' केषाञ्चिदाचार्याणां मते दायाधकाले तत्कर्तव्यम् दायाद्यकालश्च भ्रातृणां धनविभागकालः तस्मिन्हि काले स्वेन द्रव्येण कर्मानुष्ठानसमर्थों भवति, साधारणद्रव्यस्य हि परित्यागासामर्थ्यादनधिकार एव, अतोऽयं व्यवस्थितविकल्पः अभ्रातृकस्य दारकाले भ्रातृमतो दायाद्यकाल इति । 'वैश्यस्येति' हुतोच्छिष्टोऽग्निर्गृह्यते असंस्कृतो वा अविरोधात् । 'अरणिप्रदानमिति' प्रशब्द उपशब्दार्थे, अरण्युपादानकमेके आचार्या इच्छन्ति, एके वैश्यस्य कुलादित्युभयोर्विकल्पेन स्मरणम् । तत्र 'चातुष्प्राश्यपचनवदिति ' वतिना वैश्यकुलाम्बरीषमहानसरूपयोनित्रये निर्दिष्टे वैश्यस्येति ग्रहणं योन्यन्तरव्युदासार्थम् । वैश्यकुलग्रहणाच नान्यथा प्रकृप्तिः । अत एवोभयोरेव विकल्पेन स्मरणमुक्तम् । तत्र चातुष्प्राश्यपचनवत्सर्वकर्म कर्तव्यम् । चातुष्पाश्यपचनं यत्न कर्मणि विद्यते तदिहापि सर्वम्भवति । तत्कुतः 'पञ्च महायज्ञा इति श्रुतेः । पञ्चमहायज्ञा हि श्रुतौ पठ्यन्ते तत्साधनभूतश्वायमग्निः औतकर्मसाधनभूते चानौ चातुष्प्राश्यपचनवतीतिकर्तव्यता दृष्टा, अयमपि श्रोतकर्मसाधनभूत एवेत्यभिप्रायः । तस्माचातुष्याश्यपचनवतीविकर्तव्यताप्रवृत्तिरत्रापि । अपिचाधाने सेतिकर्तव्यता दृष्टा इदमप्याधानमेव । एवं हि श्रूयते एतदेव प्रकृत्य अथैनं वयं न्येवधास्याम इति तेनाधानसामान्यादिहापि प्रवर्तत एवेति । एवं स्थित उच्यते, एके आचार्या नेच्छन्त्यत्र चातुष्प्राश्यपचनवतीतिकर्तव्यताम् । यत उपदेशेन धर्मः प्रवर्तते अतिदेशेन वा । न चात्रोपदेशो नातिदेशस्तस्मान्नैव प्रवर्तते । कथन्तहीदमुक्तम् , यस्य नाम औतकर्मसाधनभावेन आधानसामान्याद्वा प्रवृत्तिबुद्धिस्तां निवर्तयितुमित्यदोषः । गृह्यकारान्तररप्यनयैव भ्रान्त्येयमितिकर्तव्यतोपदिष्टा, तन्निराकर्तुमिह पूर्वपक्ष उपन्यस्तः । 'अग्न्याधेयदेवताभ्य इति' वक्तुमशक्यम् । वक्ष्यत्यग्न्याधेयदेवताभ्यो हुत्वा जुहोतीति । तर्हि किमर्थमुक्तम् , बहुत्वविशिष्टानामत्र देवतात्वं यथा स्यादिति । किञ्च स्यात् , द्वे अप्यग्न्याधेयदेवते स्त एव, तयोरेव देवतात्वम्माभूदिति पुनम्रहणाहीनामेव देवतात्वम् । 'अपयित्वेति ' अपणोपदेशान्न शृतासादनम् । 'आज्यभागाविष्ट्रेति' किमर्थमुक्तम् । उच्यते, आधारादीनाचतुर्दशाज्याहुतीनाङ्कम उक्तः । तत्रेहाष्टानामनिर्दिष्टावसराणामवसरविधानार्थम् । अथ शाखान्तरीयमन्त्रव्याख्यानमारभते । स्वशाखीयमत्राणामुवटाचार्यादिभिर्व्याख्यातत्वात् । ऋष्यादि तु सर्वेषामुच्यते तज्ज्ञानस्यौपयिकत्वात् । 'तत्र त्वन्नः सत्वन्न इति ' द्वे वामदेवदृष्टे त्रिष्टुभौ अग्नीवारुण्यौ त्रिपशौ । ' इमम्मे तत्वायामीति द्वे शुनःशेपदृष्टे प्रथमा गायत्री द्वितीया त्रिष्टुभौ अग्नीवारुण्यौ त्रिपशौ । 'इमम्मे तत्वायामीति । द्वे शुनःशेपदृष्टे प्रथमा गायत्री द्वितीया त्रिष्टवुमे वारुण्यौ त्रिपशौ । येते शतं वरुण ये सहस्त्रं यज्ञियाः पाशा वितता महान्तः । तेभिन्नों अद्य सवितोऽतविष्णुर्विश्वे मुश्चन्तु मरुतः स्वः । अस्यार्थः । तत्र वामदेवऋषिस्त्रिष्टुप् लिङ्गोक्ता देवता सर्वप्रायश्चित्ते । हे वरुण ते तव ये शतं बहुसंख्याताः ये च सहस्रम् असंख्याता: पाशाः पापानि बन्धनहेतुत्वात् । किम्भूताः यज्ञियाः यज्ञप्रत्यूहोत्पन्नाः वितताः सर्वत्र विस्तृताः महान्तः अपरिहार्याः तेभिः तैः पाशितान्नोऽस्मान् अद्य अस्मिन्नेव अहनि सवित्रादयो देवा मुञ्चन्तु मोचयन्तु अकरणायथाकरणान्यथाकरणप्रत्यवायाभिभूतान् पुनन्त्वित्यर्थः । उत अप्यर्थः । किम्भूताःस्वःस्वञ्चनाः सर्वगाः सर्वपूया वेत्यर्थः । अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्वमया असि । अयानो यज्ञं वहास्ययानो धेहि भेषजम् । अस्यार्थः । तत्र वामदेवत्रिष्टुप् अग्निः प्राय