________________
पारस्करगृह्यसूत्रम् ।
[द्वितीया श्चित्तहोमे । हे अग्ने त्वम् अयाः न यातीत्ययाः या प्रापणे सर्वत्र वाह्याभ्यन्तरावस्थितः असि भवसि । किम्भूतः अनभिशस्तिपाः न विद्यते अभिशस्तिरभिशापो येपान्ते अनभिशस्तयः तान् पाति आत्मसात्कगेति शोधयतीति यावत् प्रायश्चित्तानुष्टानेन कर्मानुष्ठानपरिपालक इत्यर्थः । किञ्च हे अग्ने यस्त्वम् अयाः शुभावहो विधिरसि तत्सत्यमित् सत्यमेव । इत् एवार्थे दीर्घश्छान्दसः । यस्माद्धे अया: नोस्माकम् अयाः सुमनाः स्वाश्रयो वा भूत्वा यजं वहासि वहास, यद्वा यज्ञं यज्ञसम्पादनञ्चरुपुरोडाशादिवस्तुजातकपालुत्वेन देवेभ्यः सम्पादयसि तस्मान्नोऽस्मभ्यम्भैषजं सुखजननन्दुःखध्वंसनरूपमपूर्वन्धेहि देहीति प्रार्थना । विभ्यत्यस्मादितिभेषजं जयतीति भेषजम् । चकारावुत्कर्षसूचनाएँ । 'उदुत्तममिति०' शुनःशेप० त्रिष्टुप्० वारुणी० पाशोन्मोके० । 'भवतन्नः । प्रजापतिः पतिर्जातवेदसावग्निप्रासने । अष्टावितिमन्त्रप्रतीकसंशयव्युदासार्थम् । 'पुरस्तादिति' अग्न्यायदेवताहोमस्य । ताश्चाग्निपवमानाग्निपावकाग्निशुचयोदितिश्चेति । एवमुपरिष्टात्तस्यैवाष्टावाज्याहुतीस्तथैव जुहोति । 'स्विष्टकृत चेति' हविरन्तरे प्राड्महाव्याहृतिभ्यः स्विष्टकृद्धोमो विहितः तस्मै च हुत्वा चकारादाब्याहुतिञ्जुहोति 'अयास्यग्नेरिति मन्त्रेण | अस्यार्थः । तत्र गौतमो गायत्री गातुविदो देवा देवता आज्यहोमे । हे गातुविदो यज्ञवेत्तारो देवाः अग्नेः सम्बन्धि यद्वषट्कृतं हुतं यत् येन कर्मणा यजनविधिना कृत्वा अहमत्यरीरिचम् अधिकृतवानस्मि । तेन कर्मणा प्रसन्नानाम्भवताम्प्रसादात्तदयासि अनश्वरमव्याहतमस्तु । वहिहोमश्वान्न विधानसामर्थ्यादिहैव स्यान्नान्यत्र । ' ब्राह्मणभोजनम् । इत्येक. द्विवहुपु समासस्य तुल्यत्वादेकस्मिन्नपि भोजिते चार्थस्य कृतत्वादेकस्यैव भोजनमिति ॥२॥
(हरिहरः)-आवसथ्याधानन्दारकाले आवसथ्याग्निना साध्यानि कर्माणि व्याख्यातुं प्रतिज्ञातानि प्रथमसूत्रे सूत्रकृता पारस्करेण यतोऽतस्तस्याधानविधिं व्याख्यातमुपक्रमते । आवसथ्यस्य गृह्यस्य अग्नेराधानमावसथ्याधानम् तद्दारकाले विवाहकाले चतुर्थीकानन्तरं कुर्यात् प्राक् चतुर्थीकर्मणः पन्या भार्यात्वस्यानुपपत्तेः सभार्यस्य च आधानेऽधिकारः । वैवाहिकोऽग्निरेवोपासनानिरिसाश्वलायनादीनाम्पक्षः ते हि विवाहहोममेव दाराग्न्योः संस्कारकं मन्यन्ते अस्माकन्तु आवसध्याधानन्दारकाल इत्यारभ्याग्निसंस्कारस्य पारस्कराचार्येण पृथगमिधानात् तत्संस्कारसंस्कृतोऽग्निरौपासनः । दायाद्यकाल एकेपाम् ' एकेपामाचार्याणाम्मते दायाद्यकाले भ्रातृणाम् पितृधनविभागकाले । अविभक्त हि पित्र्ये धने सर्वेपाम्भ्रातृणां स्वत्वम्य साधारणत्वेन विनियोगानहत्वात् धनविनियोगसाध्यं हि आवसथ्यादिकर्मानुष्ठानम् । अतो भ्रातृमतां विभक्तानामाधानेऽधिकार इति तेपामभिप्रायः । अभ्रातृकस्य दारकाले एवं व्यवस्थितो विकल्पः । एवमृतविवाहस्य विभक्तधनस्य च आधाने अधिकारमभिधाय इदानीमाहरणपक्षे आधानमाह । 'वैश्यस्य बहुपशोरॅहादग्निमाहत्य । चानुप्राश्यपचनवत्सर्वम् । तत्रावसथ्याधानकरिष्यन् उक्तकालातिक्रमाभावे ज्योति.शास्त्रे अग्न्याधानापिदिष्टमासतिथिनक्षत्रवारादिके काले प्रातः सुनातः सुप्रक्षालितपाणिपादः स्वाचान्तः सपबीका गोमयोपलिमे शुचौ देश म्वासने उपविश्य अद्येहेत्यादिदेशकालौ स्मृत्वा आवसभ्याग्निमहमाधान्य इति सहल्पं विधाय मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं यथोक्तं कुर्यात् । कालातिक्रमेतु "यावन्त्यदान्यतीतानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि" इति वचनान अतिकान्नमम्वत्सरसाद यया प्राजापत्यरूपम्प्रायश्चित्तम्मुख्यविधिना चरित्वा तदशक्ती प्रतिप्राजापत्यवान्दत्वा नदला तन्मृल्यं निष्कमेकमन्तदई वा द्वादशवाह्मणभोजनमयुतगायत्रीजपं वागायच्या निलायमानहोम वा गवत्यपेक्षयाऽन्यतमं विधाय होम्यं सायम्यानहमिद्रव्यं प्रत्यहमाहनिचतुष्टयपानमनियन्तदिवसान गणयित्वा प्रामणेभ्यो दद्यात् । तत्रावनध्यप्रगंगावाम्यं गृपफा । "नानसा यात्यगे धम्मों नावसध्यात्परन्तपः । नाचमध्यात्परं दानन्नावस यात्परं भनम । नाव.