________________
१७
hosar ]
प्रथमकाण्डम् |
करि
सथ्यात्परं श्रेयो नावसथ्यात्परं यशः । नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः । नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतमित्यावश्यकत्वान्नित्यम् ” तस्मादकरणे प्रत्यवायात् तत्क्षयार्थे प्रायश्चित्तमुचितम् । तत्र वाक्यम् । आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्षनिरग्नित्वजनितदुरितक्षयाय एतावन्ति प्राजापत्यव्रतानि चरिष्ये । तदशक्तौ प्राजापत्यप्रत्याम्नायत्वेन प्रतिप्राजापत्यमेकैकां गां ब्राह्मणेभ्योऽहं संप्रददे । एवमन्येषु गोमूल्यदाननिष्कतदर्द्धार्द्धद्वादशब्राह्मणभोजनायुतगायत्री जपगाययातिलाहुतिसहस्ररूपेषु वाक्यमूहनीयम् । ततः स्वशाखाध्यायिनं कर्मसु तत्त्वज्ञं ब्राह्मणं गन्धपुष्पसाल्यखालङ्कारादिभिरभ्यर्च्यामुकगोत्रममुकशर्माणममुकवेदममुकशाखाध्यायिनमावसभ्याधानं ष्यन् कृताकृतावेक्षकत्वेन ब्रह्माणमेभिश्चन्दनपुष्पाक्षतवस्त्रालङ्कारैस्त्वामहं वृणे, वृतोऽस्मीति तेन वाच्यम् । केचिद्ब्रह्माणं मधुपर्केणार्चयन्ति ऋत्विक्त्वाविशेषात् । ततः पत्न्या सहाहते वाससी परिधाय अग्न्याधानदेशे स्थण्डिलमुपलिप्य पञ्च भूसंस्कारान्कृत्वा तं देशमहतवाससा पिधाय ब्रह्मणा सह समृदं स्थालीमादाय ब्राह्मणैः परिवृतो वेदघोपमङ्गलगीतवाद्यादिभिर्जनितोत्साहो 'वैश्यस्य' तृतीयवर्णस्य 'वहुपशो:' पशुभिः समृद्धस्य तदलाभे गोभिलादिसूत्रवचनात् भ्राष्ट्रगृहात् अम्बरीपाहुया - जिनो ब्राह्मणस्य गृहात् वा वह्नन्नपाकात् ब्राह्मणस्य महानसाद्वा स्थाल्यामग्नि गृहीत्वा तथैव गृहमा - गत्य परिसमूहनादिपञ्चभूसंस्कारसंस्कृते स्थण्डिले प्राङ्मुख उपविश्यात्माभिमुखमग्निं निदध्यात् । ततो ब्रह्मोपवेशनादि ब्राह्मणभोजनान्तं वक्ष्यमाणं कर्म कुर्यात् । चातुष्प्राश्यपचनवत्सर्वमिति सूत्रकृता पूर्वपक्ष उपन्यस्तो न तु सम्मत इति कर्कोपाध्यायो भाष्ये निरूपितवान् । अधुनाऽऽरणेयपक्षमाह । अरणिप्रदानमे । एके आचार्याः अरणिप्रदानं प्रशब्द उपशब्दस्यार्थे अरणिप्रदानमुपादानं कारणम् उत्पत्तिस्थानं यस्याः सोऽरणिप्रदानस्तमरणिप्रदानमग्निमादधीतेति मन्यन्ते ' पञ्चमहायज्ञा इति श्रुतेः ' पश्चमहायज्ञानां श्रतत्वात् आरणेयेऽग्नावनुष्ठानं युक्तमित्यभिप्रायः । ततो ब्रह्मोपवेशनादि आज्यभागान्तं कर्म कृत्वा 'अग्न्याधेय देवताभ्यः स्थालीपाकं... इत्यष्टौ ' अग्न्याधेयस्य श्रौतस्य देवता: अभिः पवमानोऽग्निः पावकोऽग्निः शुचिरदितिश्व अग्न्याधेयदेवताः ताभ्यः स्थालीपाकं चरुं अपयित्वा यथाविधि पक्त्वा आज्यभागौ आग्नेयसौम्यौ आधारपूर्वको हुत्वा आज्येन आयो होतव्या: आज्याहुतयस्ता आज्याहुतीर्जुहोति । त्वन्नो अन इत्यादिभिर्भवतन्त्र इत्यष्टौ ताभिरष्टभिर्ऋग्भिः प्रत्यृचमष्टौ । ननु अग्न्याधेयदेवताभ्यो हुत्वा जुहोति इति वक्ष्यति तत्किमर्थमत्राग्न्याधेयदेवताभ्य इत्युक्तम् वह्नीनां देवतानां देवतात्वज्ञापनायेति चेत्, ननु बहुत्वमस्त्येव कुत इयं शङ्का पवमानादिविशेषणविशिष्टस्यानेकत्वात् । अग्नेरेका अदितिर्द्वितीयेति द्वे एवाग्न्याधेयदेवते इति द्वयोरेव देवतात्वं मा भूदिति । पुनर्ग्रहणात् वह्नीनामेव देवतात्यं, विशिष्टस्य देवतान्तरत्वमिति इन्द्रमहेन्द्राधिकरणे जैमिनीयैर्निर्णीतत्वात् । आज्यभागाविष्वेति किमर्थम्पुनर्वचनम् आघारादीनां चतुर्दशानां क्रमेण पठिप्यमाणत्वात् उच्यते । आन्याहुतीनां किं स्थानमिति संशये आज्याहुतिस्थान विधानार्थम्, अष्टग्रहणं तु मन्त्रप्रतीकसंशयनिवृत्त्यर्थम् । 'पुरस्तादेवमुपरिष्टात्स्थालीपाकस्याग्न्याधेयदेवताभ्यो हुत्वा जुहोति ' पुरस्तात् पूर्वं कस्य अग्न्याधेयदेवताहोमस्याष्टौ जुहोति यथा । ' एवमुपरिष्टात् ' एवं तथा त्वन्नो अन्न इत्यादिना क्रमेण उपरिष्टादूर्ब जुहोत्यष्टौ किं कृत्वा । हुत्वा काभ्यः अग्न्याधेयदेवताभ्यः पूर्वोक्ताभ्यः कस्य स्थालीपाकस्य चरो: स्थालीपाकस्येत्यवयवलक्षणा पष्ठी । ' विष्टकृते च ' विष्टकृते चाग्नयेऽर्चहोमान्ते स्थालीपाकस्य हुत्वा चशब्दात् ' अयास्यग्ने - र्वपट्कृतं यत्कर्मणात्यरीरिचं देवा गातुविदइति ' अयास्यग्नेर्वपट्कृतमित्यनेन मन्त्रेणाज्याहुतिं जुहोति । ननु स्विष्टकृते इति किमर्थमुक्तं प्राड्महाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविरिति वक्ष्यमाणत्वादन चान्यस्य हविप: सद्भावात्प्राड्महाव्याहृतिभ्यः प्राप्तत्वात्स्विष्टकृद्धोमस्य । उच्यते--अयास्यग्नेरिति
३
******
1