________________
૨૮
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
आज्याहुतेर्महाव्याहृतिभ्यः पूर्व प्रात्यर्थम् । ' वर्हिर्हुत्वा प्राश्नाति ' वर्हिः परिस्तरणार्थं अग्नौ प्रक्षिप्य प्राश्नाति भक्षयति । अत्र प्राशनोपदेशसामर्थ्यात् प्राश्यमाकाङ्क्षितम् तत्किं हुतशेषः अन्यद्वा किञ्चित् : उच्यते——-पाकयज्ञेष्ववत्तस्यासर्वहोमो हुत्वा शेषप्राशनमिति कात्यायनोक्तेः स्रुवेणावत्तस्य होमद्रव्यस्य सर्वस्य होमनिषेधात् हुतशेपस्य च प्राशनविधानात् सर्वासामाहुतीनां होमद्रव्यं स्रुवेऽवशेषितं संस्रवत्वेन प्रसिद्धं पात्रान्तरे प्रक्षिप्यते तत्प्राश्यमिति । ननु अकृते वैश्वदेवे त्वित्यादिवचनाद्वैश्वदेवात्प्राक् स्थालीपाकानुष्ठानं प्राप्तं तत्र च संस्रवप्राशनं विहितं तत्कृत्वा कथं माध्याह्निके वैश्वदेवादि - कर्मण्यधिकार इति चेत् उच्यते - शेषप्राशनस्य कर्माङ्गत्वेन विधानात् अप्राशने च कर्मणो वैगुण्यात् नोत्तर कर्माधिकारनिवृत्तिः । वहिमच विधानसामर्थ्यादग्न्याधान एव भवति नान्येषु कर्मसु । ' ततो ब्राह्मणभोजनम् ' ततः समाप्ते कर्मणि ब्राह्मणभोजनं दद्यात् । ब्राह्मणभोजनमित्यत्र एकस्मै
वहुभ्यो वा भोजनं ब्राह्मणभोजनमिति समासस्य तुल्यत्वात् एकस्मिन्नपि ब्राह्मणे भोजिते अर्थस्यानुष्टितत्वात् एकस्यैव भोजनमिति युक्तम् इति सूत्रार्थः ।
अथ पद्धतिः - तत्रावसध्याधानङ्करिष्यन् उक्तकालातिक्रमाभावे अग्न्याधानार्थोपदिष्टमास - तिथिवारनक्षत्रादिके काले प्रातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तः सपत्नीको गोमयोपलिप्ते शुचौ देशे स्वासन उपविश्य अद्येहेत्यादिदेशकालौ स्मृत्वा आवसथ्याभिमहमाधास्य इति सङ्कल्पं विधाय मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं यथोक्तं कुर्यात् । कालातिक्रमे तु " यावन्त्यन्दान्यतीतानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि ” । इति वचनादतिक्रान्तसंवत्सरसङ्ख्यप्राजापत्यरूपं प्रायश्चित्तं मुख्यविधिना चरित्वा तदशक्तौ प्रतिप्राजापत्यं गां दत्त्वा तदलाभे तन्मूल्यं निष्क्रमेकमर्द्ध तदर्द्ध वा द्वादशब्राह्मणभोजनं वा अयुतगायत्रीजपं वा गायत्र्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षयाऽन्यतमं विधाय हौम्यं सायम्प्रातर्होमद्रव्यं प्रत्यहमाहुतिचतुष्टयपर्याप्तम् अतिक्रान्तदिवसान् गणयित्वा ब्राह्मणेभ्यो दद्यात् । अथवाक्यम् आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्षेनिरग्नित्वजनितदुरितक्षयाय एतावन्ति प्राजापत्यव्रतानि चरिष्ये तदशक्तौ प्राजापत्यप्रत्यास्नायत्वेन प्रतिप्राजापत्यमेकैका गां ब्राह्मणेभ्योऽहं सम्प्रददे एवमन्येष्वपि वाक्ये पूहनीयम् । तद्यथा आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्पनिरभित्वजनितदुरितक्षयाय प्राजापत्यप्रत्याम्नायत्वेन प्रतिप्राजापत्यमेतावतीनां गवां मूल्यमिदमेतावत्सुवर्णे ब्राह्मणेभ्योऽहं सम्प्रददे तद्वत्प्राजापत्य प्रत्याम्नायत्वे - नैतावतो ब्राह्मणान् भोजयिष्ये । आवसथ्याधानमुख्यकालातिक्रान्तैतावद्वर्पनिरग्भित्वजनितदुरितक्षयाय एतावत्प्राजापत्यप्रत्याम्नायत्वेन गायत्र्या एतावन्त्ययुतानि जपिष्ये । तद्वदेतावन्ति तिलाहुति - ' सहस्राणि होष्यामीति । एवं कृतप्रायश्चित्तो होमद्रव्यं दद्यात् । तद्यथा आवसथ्याधान मुख्य कालातिक्रान्तैतावद्दिनसंबंधिसायम्प्रातर्होमद्रव्यमेतावत्परिमाणं दधितण्डुलयवानामन्यतमं त्राह्मणेभ्योऽहं सम्प्र दढ़े तन्मूल्यं द्रव्यमेतावत्परिमाणं वा । हौम्यं दद्यादितिवचनात् इतरपक्षाद्याद्विकर्मद्रव्यदाननिवृत्तिः । छन्दर्पिस्मरणम् । इपेत्वादि खं त्रह्मान्तम् । ततः स्वशाखाध्यायिनं कर्मसु तत्वज्ञं ब्राह्मणं गन्धपुष्पमाल्यवस्त्रालंकारादिभिरभ्यर्च्य अमुकगोत्रममुकशर्माणममुकवेद्ममुकशाखाध्यायिनमावसथ्याधानं करिष्यन् कृताकृतावेक्षकत्वेन ब्रह्माणमेभिरचन्दनपुष्पाक्षतवस्त्रालंकारैस्त्वामहं वृणे वृतोऽस्मीति तेन वाच्यम् । केचिन् ब्रह्माणं मधुपर्केणार्चयन्ति ऋत्विक्त्वाविशेपात् । ततः पत्न्या सहाहते वाससी परिवाय अग्न्याधानदेशे स्थण्डिलमुपलिप्य पञ्चभूसंस्कारान् कृत्वा तं देशं वस्त्रेण पिधाय ब्रह्मणा सह समृद स्थालीमादाय ब्राह्मणैः परिवृतो वेदघोपमङ्गलगीतवाद्यादिभिर्जनितोत्साहो वैश्यस्य बहुपशोर्गृहात्सूत्रान्तरमतन अम्बरीपाहुयाजिनो ब्राह्मणस्य गृहाद्वा बहन्नपाकाद् ब्राह्मणमहानसाद्वा स्थाल्यामग्निं गृहीत्वा तचैव गृहमागत्य परिसगृहनादिपञ्चभूसंस्कारसंस्कृते स्थण्डिले प्राड्मुख उपविश्य आत्माभिमुख -