________________
कण्डिका]
प्रथमकाण्डम् मग्निन्निध्यात् इत्याहरणपक्षे । आरणेयपक्षे तु गृह्याग्न्याधानजातेच्छो यजमानः पुण्येऽहनि, अश्वत्थो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राड्मुखी शाखा उदीची चोर्ध्वगापि वा ॥ १॥ अरणिस्तन्मयी ज्ञेया तन्मध्ये चोत्तरारणिः । सारवदारवश्चात्रमोविली च प्रशस्यते ॥२॥ संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते । अलाभे त्वशमीगर्भादाहरेदविलम्वितः ॥ ३॥ (आहरेत्तु शमीगर्भाद्धरेदेवाविलम्वितः । ?) चतुर्विंशाङ्गुला दीर्घा विस्तारेण पडङ्गुला । चतुरङ्गुलमुत्सेधा अरणिर्याज्ञिकैः स्मृता ॥४॥ मूलादृष्टाङ्गुल त्यक्त्वा अग्राच्च द्वादशाङ्गुलम् । अन्तरं देवयोनिः स्यात्तत्र मथ्यो हुताशनः ॥५॥ मूर्द्धाक्षिकर्णवाणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि द्वयङ्गुष्ठं वक्ष उच्यते ॥ ६ ॥ अङ्गुष्टमात्रं हृदयं त्र्यङ्गुष्ठमुदरं तथा । एकाङ्गुष्ठा कटिज्ञेया द्वौ वस्तिद्वौं च गुह्यकम् ॥७॥ ऊरू जो च पादौ च चतुस्त्र्येकर्यथाक्रमम् । अरण्यवयवा ह्येते याज्ञिकैः परिकीर्तिताः ॥ ८॥ यत्तगुह्यमिति प्रोक्तं देवयोनिः स उच्यते । तस्यां यो जायते वह्निः स कल्याणकटुच्यते ॥ ९॥ प्रथमे मन्थने ह्येष नियमो नोत्तरेषु च । अष्टाङ्गुलः प्रमन्थः स्याच्चानं स्याहादशाङ्गुलम् ॥ १० ॥ ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् । गोवालैः शणसंमिस्त्रिवृद्धत्तमनंशुकम् ॥ ११ ।। व्यामप्रमाणं नेत्रं स्यात्तेन मथ्यो हुताशनः । चात्रबुध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः ॥ १२ ॥ इत्युक्तलक्षणमरण्यादिकं संपाद्य उक्तकाले माघादिपञ्चमासानामन्यतमे मासे कृत्तिकारोहिणीमृगशिरःफल्गुनीद्वयहस्तानामृक्षाणामन्यतमान्वितायां शुभतिथौ चन्द्रशुद्धौ गृह्याग्निमादधीत । मुख्यकालातिक्रमे तु एतावान्विशेषः । उक्तविधिना कृतप्रायश्चित्तो दत्तहोम्यद्रव्यः स्नानादिपूर्वक संकल्पादिमातृपूजाभ्युदयिकश्रारब्रह्मवरणाहतवास परिधानादि कृत्वा शालायां यजमान उपविशति । तस्य दक्षिणाने पल्ली । अथ ब्रह्मा अरणी आदाय अधरारणिं पत्न्यै उत्तरारणिं यजमानाय दद्यात् । तौ चावसथ्याग्निसाधनभूते इमे अरणी आवाभ्यां परिगृहीते तत्रेयमधरा इयमुत्तरा इदं चानम् इयमोविली इमानि स्तुवादीनि पात्राणि परिगृहीतानि इति परिगृह्णीतः । ततोऽग्न्याधानदेशे शङ्कु द्वादशाङ्गुलं खादिरं चतुरङ्गुलमस्तकं निखाय तत्र रज्जुपाशं शिस्वा आमुच्य सार्द्धत्रयोदशाङ्गुलरज्जु शकन्तराले संवेष्ट्य प्रदक्षिणपरिभ्रामणेन परिलिख्य तत्र परिसमूहनादिपञ्चभूसंस्कारान्कृत्वा आच्छाद्य मन्थनमारभेत । तद्यथा प्राग्नीवमुत्तरलोम कृष्णाजिनमास्तीय तत्रोदगग्रासधरारणिं निवाय तत्पूर्वत उत्तारारणि च अधरारण्या उक्तलक्षणमन्थनप्रदेशे प्रमन्थमूलं निधाय चात्राग्रे चोविलीमुद्गयां च नेत्रेण चानं त्रिवेष्टयित्वा गाढं धृत्वा पश्चिमाभिमुखोपविष्टया पत्न्या मन्थयेन् यावदग्नेरुत्पत्तिः । पत्न्या मन्थनासामर्थे अन्ये ब्राह्मणाः शुचयो मन्थयन्ति । एवं यजमानासामर्थे अन्यो यन्त्रन्धारयति । ततः जातमग्निं मृन्मये पाने शुष्कगोमयपिण्डचूर्णोपरि निहिततूले सपुरीपं परिक्षिप्य संधुक्ष्य प्रज्वाल्य पूर्वसंस्कृते देशे आध्यात् । तत्र ब्रह्मोपवेशनादि देवताभिधानपर्युक्षणान्तं कृत्वा नुवमादाय दक्षिणं जान्वाच्य ब्रह्मणान्वारब्धः प्रजापतये स्वाहेति मनसा ध्यायन् प्राश्चमूमनुं सन्ततमाज्येन अग्नेरुत्तरप्रदेशे पूर्वाधारमाघारयति इदं प्रजापतय इति त्यागं कृत्वा हुतशेष पात्रान्तरे प्रक्षिपेत् । तथैवेन्द्राय स्वाहेति अग्नेक्षिणप्रदेशे उत्तराघारमिदमिन्द्रायेति त्यागं विधाय, अग्नये स्वाहेति अग्नेरुत्तरार्द्धपूर्वार्द्ध आग्नेयमाज्यभाग हुवा इदमग्नय इति द्रव्यं त्यक्त्रा, तथैव सोमाय स्वाहेति दक्षिणार्द्धपूवा सौन्यमाज्यभागं हुत्वा इदं सोमायेति स्वलं त्यजेत् । समिद्धतमे वाग्निप्रदेशे आधाराद्याः सर्वांहुतीर्जुहुयात् । अथाष्टर्चहोमः नान्वारम्भः । त्वन्नो अग्ने, सत्वन्नो अग्ने, इमम्मेवरुण, तत्त्वायामि, येते शतम् , अयाश्वान, उदुत्तमं, भवतन्न इत्येताभिरष्ठभित्रग्भिः प्रत्यृचमेकैकामष्टाध्याहुती वा यथादेवतं स्वत्त्रत्यागं च कृत्वा स्थालीपाकस्य जुहुयात् । तद्यया त्वन्नो अग्न इति वामदेवऋषिः त्रिष्टुप्छन्दोइनीवरुणौ देवते प्रायश्चित्तहोमे विनियोगः । सत्त्रमिति पूर्ववन् । इमं म इति शुनःशेपऋपिः गायत्री