________________
२०
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
छन्द: वरुणो देवता, तत्वायामीति शुनःशेपऋषिः त्रिष्टुप्छन्दः वरुणो देवता, येते शतमिति शुन:शेपऋपिः जगतीछन्दः वरुणः सविता विष्णुर्विश्वेदेवा मरुतः स्वकं देवताः, प्रायश्चित्तहोमे विनियोगः । अयाचा इति प्रजापतिऋपिः विराट् छन्दः अग्निर्देवता प्रायश्चित्तहोमे विनियोगः । उदुत्तममिति शुनःशेपऋपिः त्रिष्टुप् छन्दः वरुणो देवता, विष्णुक्रमेषु पाशोन्मोचने विनियोगः । भवन्न इति मन्त्रस्य प्रजापतिऋपिः पङ्क्तिच्छन्दः जातवेदसौ देवते अभिप्रासने विनियोगः । त्वन्नोअग्न इत्यादि प्रमुमुग्ध्यस्मत्स्वाहा इदमनीवरुणाभ्यां नमम । सत्वन्नो अग्ने० सुहवो न एधि स्वाहा इदमनीवरुणाभ्यां न० । इमम्मेवरुण० चके स्वाहा इदं वरुणाय न० । तत्त्वा यामि० प्रमोपी: स्वाहा इदं वरुणाय न० । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिर्नोऽअद्य सवितो विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यः, केचिदिदं वरुणायेति । अयाश्वास्यनभिशस्तिपाश्चसत्यमित्त्वमया असि । अया नोयज्ञं वहास्ययानो धेहि भेषजथं स्वाहा इदमग्नये असे न० । उदुत्तमं० अदितये स्याम स्वाहा इ वरुणाय० । भवतन्नः० शिवौ भवतमद्यनः स्वाहा इदं जातवेदोभ्याम् केचिदिदमग्निभ्यामिति । अथ स्थालीपाकेन चतस्रोऽग्न्याधेयदेवताः । अग्नये पवमानाय स्वाहा इदमग्नये पवमानाय० । अग्नये पावकाय स्वाहा इदमग्नये पावकाय० । अग्नये शुचये स्वाहा इदमग्नये शुचये नम० । अदित्यै स्वाहा इदमदित्यै० । इत्यग्न्याधेयदेवताभ्यः । ततः पूर्ववदाज्येनाष्टर्चहोमः । ततो ब्रह्मान्वारन्ध उत्तरार्द्धात्सुवेण चरुमादाय अग्नये स्विष्टकृते स्वाहेति अग्नेरुत्तरार्द्धे जुहुयात् इदमग्नये स्विष्टकृते ० । अथानन्वा - रब्ध आज्येन मयास्यग्नेर्वपट्कृतं यत्कर्मणात्यरीरिचं देवागातुविदः स्वाहा इदं देवेभ्यो गातुविद्भ्यः, इति स्वत्वं त्यक्त्वा । अथ ब्रह्मान्वारन्धः ॐ भूर्भुवः स्वरिति क्रमेण प्रजापतिऋषिर्गायत्री छन्दोऽग्निर्देवता प्रजापतिऋषिरुष्णिक्छन्दो वायुर्देवता प्रजापतिर्ऋषिरनुष्टुप् छन्दः सूर्यो देवता व्याहृतिहोमे विनियोगः । 'भूः स्वाहा इदमप्रये । ॐ भुवः स्वाहा इदं वायवे । ॐ स्वः स्वाहा इदं सूर्याय । इदं भूर्वा इदं भुव इति वा इदं स्वरिति वा । त्वन्नो अग्ने, सत्वन्नो अग्ने, अयाश्चाग्ने, येते शतं, उदुत्तमं पञ्च मन्त्राः प्रजापत्यन्ता नवाहुतीर्हुत्वा वर्हिहमं च कृत्वा संस्रवम्प्राश्याचम्य पवित्राभ्यां मुखं मार्जयित्वा पवित्रे अग्नौ प्रक्षिप्य प्रणीता अग्नेः पश्चिमतो निनीय आसादितपूर्णपात्रवरयोरन्यतरस्य ब्रह्मणे दक्षिणात्वेन दानं कृत्वा एकत्राह्मणभोजनदानम् । तथा स्मृत्यन्तरोक्तत्रयोविंशतिब्राह्मणभोजनम् । अत्र मार्जनं पवित्रप्रतिपत्तिः वहिहोंमः प्रणीताविमोक इत्येते चत्वारः पदार्थाः भाष्यकारमते गृह्यकर्मसु न भवन्ति वचनाभावात् आवसथ्याधाने तु वर्हिहोंमो वचनाद्भवति इत्यावसथ्याधानम् । ततो मणिकाधानपमहायज्ञसायम्प्रातहोंमनिमित्तञ्च श्राद्धचतुष्कं तद्दिने एव कार्यम् । अथ पुनराधाननिमित्तानि लिख्यन्ते । तत्र कृतावसध्याधानौ पत्नीयजमानौ अनि परित्यज्य यदि ग्रामसीमामतीत्य वसेयातामेकां रात्रिं तत्र प्रातः गृहमागत्याग्निम्मथित्वात्क्तविधिना ब्रह्मोपवेशनादि ब्राह्मणभोजनान्तमाधानं कुर्यात् । तत्र होमलोपे एकतन्त्रेण सायम्प्रातहोंमं कुर्यात् । बहुहोमलो पेप्येवम् । अथ यदि कृताधानो यजमानः प्रजार्थी कामार्थी चोद्वहेत्तत्र अन्ये अरणी सम्पाद्य प्रातहोंमं विधाय दिवा विवाहं कृत्वा आचतुर्थीकर्मणो होमं त्यक्त्वा तदन्ते अतिक्रान्तहोमद्रव्यं दत्त्वा पञ्चमेऽहनि पुन - गधानं यथोक्तमित्येकः पक्षः । प्रातर्होमं कृत्वा दिवा विवाहं सम्पाद्य सद्यः चतुर्थीकर्म च कृत्वा तद्दिनवासश्याधानमिति द्वितीयः पक्षः । अत्र पक्षद्वयेऽपि पूर्वारण्योः स्फोटितयोरावसध्ये दहनम् । अन्यारण्योरावानं, पात्राणि तान्येव । यत्तु छन्दोगपरिशिष्टे । सदारो यः पुनर्दारान् कथंचित्कारणान्तरान । य इच्छेदग्निमान् कर्तुं क होमोऽस्य विधीयते । स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन । नाहिताग्नेः स्त्रं कर्म लौकिकेऽग्नौ विधीयते । इति पुनराधानाभावप्रतिपादनं तच्छन्दोगविषयम् । अ
ॐॐॐॐ
/