________________
कण्डिका]
- प्रथमकाण्डम् । नेकपत्नीकस्यैकस्याः पल्या मरणे अरणिपात्रैः सहावसथ्येन तांदाहयित्वाऽऽशौचान्ते पुनराधानम् । एकपत्नीकस्य तु पत्नीमरणे कृतविवाहस्य चतुर्थीकानन्तरं पुनराधानम् । अग्नावुपशान्ते होमकालद्धयातिक्रमे गृहपतौ प्रोषिते प्रमादात् पल्या प्रामान्तरवासे तथा गृहस्थिते यजमाने पत्न्याः प्रवासे प्राग्योमकालादनागमने पुनराधानम् । केचितु ज्येष्ठायामग्निसंनिधौ तिष्ठन्त्यामन्यासाम्पतिसहिताना केवलानां वा कार्यवशाद ग्रामान्तरस्थिती, पत्यौ वा अग्निसन्निधौ तिष्ठति सर्वासाम्पत्नीनावामान्तरगमनेनाग्निनाश इत्याहुः। तथा पन्याः अग्नि विना समुद्रगानधतिक्रमे, भर्तृरहितायाश्वाग्निना सहितायाः भयं विना सीमातिक्रमे, कर्मार्थाहरणादन्यत्र शकटं विना शम्यापरासादूर्व हरणे, त्रिरुच्छ्रसतः प्रत्यक्षाग्निहरणे, मध्यमानस्य दृष्टस्याग्नेमन्थनयन्त्रोत्थापनादूर्ध्वनाशे, संवत्सरमेकं यजमानस्य होमाकरणे, प्राजापत्यब्रह्मकूर्चयोरन्यतरप्रायश्चित्ताचरणादूर्ध्वम्पल्न्याश्च पादकृच्छ्राचरणात्पुनर्विवाहबदाघानम् । उदके नाग्न्युपशमने शिक्येनाग्न्युद्वाहने प्रत्यक्षस्यारणिसमारूढस्य वा अग्ने: एकनामधेयशतयोजनगामिनदीयोजनाधिकगामिनदीसन्तरणे (?) वा सर्वत्र सीमातिक्रमणे आद्यन्तसीमातिक्रमणेवापत्नीयजमानयोरन्वारम्भाभावे सूकरगर्दभकाकशृगालश्वकुक्कुटमर्कटशूद्रान्त्यजमहापातकिशवसूतिकारजस्वलारेतोमूत्रपुरीपमेदोऽश्रुम्लेष्मशोणितपूयास्थिमांसमजासुराप्रभृतिभिरमेव्यैः प्रत्यक्षस्यारणिसमारोपितस्य वाऽग्नेः स्पशें त्रीपक्षान्निरन्तरं पक्षहोमकरणे पुनराधानम् । तथाऽग्नेरपहरणे प्रादुष्करणादूर्व पूर्व वा शान्तेऽनौ मन्थने प्रारब्धेऽग्निजन्माभावे लौकिकाग्निब्राह्मणदक्षिणहस्ताऽजादक्षिणकर्णकुशस्तम्वजलानामन्यतमेऽग्निस्थानेऽप्रकल्पिते सूर्यास्तमये उदये या जाते पुनराधानम् । अग्निनाशभ्रान्त्या अग्निं मन्ययित्वा पूर्वाग्निं दृष्टा मथितमग्निम् अयन्ते योनिरितिमन्त्रेणारण्योः समारोप्य पूर्वऽग्नौ होमादिकं विध्यात् । यदा तु लौकिकाग्न्याधन्यतमन्निधाय होमं कृत्वा मन्थने प्रारब्धे आ द्वितीयहोमकालातृतीयाद्वा अग्नेर्जन्माभावस्तदा पुनराधानम् । आरोपिताग्न्योररण्योनाशे एकस्या वा पुनराधानम् असमारोपितयोस्तु एकतरविनाशे द्वितीयां छित्वा मन्थनम् । नष्टायाः प्रतिपत्तिरावसथ्ये दाहः । यदा पुनर्जन्तुभक्षणेन मन्थनेन वा मन्थनायोग्ये भवतस्तदाऽन्ये अरणी गृहीत्वा दर्शपक्षादिकर्म निवर्त्य जीर्णमरणिद्वयं शकलीकृत्य तस्मिन्नग्नौ प्रज्वाल्य दक्षिणहस्तेन नूतनामुत्तरारणिं स. व्यहस्तेनाधरारणिं गृहीत्वा दीप्तेऽग्नौ धारयन् उध्यस्वाग्ने प्रविश स्वयोनिमन्यां देवयज्यां वोढवे जातवेदः । अरण्या अरणिमनुसङ्कमस्व जीर्णा तनुमजीर्णया निर्गुदस्व । अयं ते योनिविय इत्येतो मन्त्रौ जपित्वा मन्थनयन्त्रन्निधायाग्निम्मन्थयित्वा भूसंस्कारपूर्वकं स्थाने निधाय पूर्णाहुतिवदाज्यं संस्कृत्यानादिष्टहोमं कुर्यात् । अथ पक्षहोमविधिः । तत्र यजमानस्य आमयादिनिमित्ते रोगाविध्वगमने राष्ट्रभ्रंशे धनाभावे गुरुगृहवासे अन्यास्वपि भयाद्यापत्सु होमानां समासो भवति । तद्यथा प्रतिपदि सायङ्काले आहुतिपरिमाणं होमद्रव्यं चतुर्दशकृत्व एकस्मिन् पाने कृत्वा अग्नये स्वाहेति हुत्वा पुनस्तथैव चतुर्दशकृत्वो होमद्रव्यं गृहीत्वा प्रजापतये स्वाहेति जुहुयात् । एवमेव होमद्रव्य चतुर्दशकृत्वः एकपात्रे निधाय सूर्याय स्वाहेति प्रातर्तुत्वा पुनम्तथैव चतुर्दशकृत्रो होमद्रव्यं गृहीत्वा प्रजापतये स्वाहेति जुहुयात् । ततो दक्षिणेन पाणिना प्रागग्रामुत्तरामरणिं गृहीत्वा सव्येनाधरारणिमग्नेरुपरि धारयन् अयं ते योनिरिति मन्त्रेणाग्नि समारोप्यारणी धारयेत् । अथ पौर्णमास्थाममावास्यायां वा प्राप्तायां प्रातररण्योरग्नि निर्मथ्य कुण्डे निधायावसरप्राप्तं वैश्वदेवादिकं कर्म विधाय सायङ्काले सार्यहोमं प्रातःकाले प्रातहोंमें हुत्वा पक्षादिहोम कुर्यात् । एतावताऽपि कालेन यद्यापन्न निवर्तते तदा उक्तविधिना पुनः पक्षहोमान् कुर्यात् । तृतीये पक्षे तु आपदनुवृत्तावपि न पक्षहोमविधिः किंतु कृच्छ्रेणापि पृथगेव सायंप्रातहोंमान् विदध्यात् । ततोऽप्यापदनुवृत्तौ पुनरुक्तविधिना पक्षे पक्षे होमसमासं कुर्यात् नतु तृतीये पक्षे । एवं यदैवापन्निमित्तं तदादि औपवसथ्याहात्मात)म