________________
२२ पारस्करगृह्यसूत्रम् ।
[द्वितीया पर्यन्तानां होमानां समासं कुर्यात् न पक्षान्तरगतानां समासं कुर्यात् । कठश्रुतिपक्षे तु न पक्षद्वयमेव पक्षहोमनियमः अपि तु आपदनुवृत्तौ यावदापन्निवृत्तिस्तावत्प्रतिपक्षमुक्तप्रकारेण निरन्तरं पक्षहोमान् समस्येदित्येकः प्रकारः, प्रकारान्तरं तु सायंकाले समिदाधानपर्युक्षणानन्तरमाहुतिपरिमाणं होमद्रव्यम् अग्नये स्वाहेति हुत्वा पुनस्तथैव सूर्याय स्वाहेति हुत्वा आहुतिद्वयपर्याप्तं होमद्रव्यमादाय प्रजापतये स्वाहेति सकृज्जुहुयात् इति सायंप्रातस्तनयोहोंमयोः समासं यावदापदमाचरेत् । यदा तु आपदो गुरुत्वं भवति तदा सायंहोमैरेव अनेन विधानेन प्रातोमानां समासं कुर्यात् । एवं पक्षहोमसमासे कृते यद्यन्तराले आपन्निवृत्तिस्तदा प्रत्यहं सायम्प्रातोमान् हुतानपि जुहुयान्नवेति कठा आमनन्ति । एते च होमसमासाः सायमुपक्रमाः प्रातरपवर्गा इत्युत्सर्गाः । आपद्विशेषे तु प्रातरुपक्रमाः सायमपवर्गाः पूर्वाहापराह्लादिकालानपेक्षा अपि बोद्धव्याः, यतः तत्रापत्कालपुरस्कारेणैव होमसमासोपक्रमो युज्यते । अपराह्ने पिण्डपितृयज्ञः । पिण्डपितृयज्ञपद्धतिर्लिख्यते । अमावास्यायामपराहे श्राद्धपाकाद्वैश्वदेवं पात्रनिर्गजनान्तं विधाय प्राचीनावीती नीवीं बद्धा दक्षिणाभिमुखोऽग्निसन्निधावुपविश्याद्य पिण्डपितृयज्ञेनाहं यक्ष्ये तत्राग्नि कव्यवाहनं, सोमं पितृमन्तम्, अमुकगोत्रान् यजमानपितृपितामहप्रपितामहान् अमुकामुकशर्मणः ब्रीहिमयैः पिण्डै. यक्ष्य इति प्रतिज्ञाय, आग्नेयादिदक्षिणान्तं दक्षिणाप्रैः कुशेरग्नि परिस्तीर्य पात्राणि सादयेत्पश्चादग्नेर्दक्षिणसंस्थानि । तत्र कृष्णाजिनं त्रुचमुलूखलं मुसलं शूर्पम् उदकं चरुस्थाली आऽयं मेक्षणं स्पयं उदकपात्रं सकृदाच्छिन्नदर्भान् तण्डुलादिद्रव्यं सूत्राणि चेति । पञ्चाशद्वर्षाधिकवयसि यजमाने सूत्रस्थाने यजमानवक्षःस्थलोमानि । सुचोऽभावे पक्षे कृष्णाजिनं चरुस्थाली उल्लूखलं शूर्प मुसलं उदकम् आज्यं मेक्षणमित्यादित्रयोदश । ततोऽग्निमपरेणापूर्णी सुचं ब्रीहीन गृहीत्वोत्तरतोऽग्नेः कृष्णाजिनमास्तीर्य तत्रोलूखलं निधाय ब्रीहीनुलूखले निक्षिप्य मुसलमादाय तिष्ठन् दशिणामुखस्त्रिःकृत्वोऽवहन्यात् यावद्वहुव्रीहयो वितुषा भवन्ति । ततः शूर्पण निष्कृय पुनरुलूखले निक्षिप्य सकृत्फलीकृत्य पुनः शूपें कृत्वा निष्पूय सोदकायां चरस्थाल्यां तण्डुलानोप्याग्नावधिश्रित्याप्रदक्षिणं मेक्षणेन चालयित्वेषच्छृतं चहें अपयेत् शृतमासादितेन घृतेनाभिघार्य दक्षिणत उदास्य पूर्वेणाग्निमुत्तरत आनीय स्थापयेत् ततः सव्यं जान्वाच्य मेक्षणेन चरुमादायाग्नये कव्यवाहनाय स्वाहेत्येकामाहुति हुत्वा इदमग्नये कव्यवाहनायेति त्यागं विधाय पुनमेंक्षणेन चरुमादाय सोमाय पितृमते स्वाहेति हुत्वा इद सोमाय पितृमत इति त्यागं विधाय मेक्षणमग्नौ प्रास्याग्नेर्दक्षिणतः पश्चाद्वा दक्षिणाभिमुख उपविश्य सव्यं जान्वाच्योपलिप्य स्फ्येनापहता असुरारक्षार्थसि वेदिपद इति दक्षिणायतां लेखामुल्लिख्योदकमुपस्पृश्य ये रूपाणीत्युल्मुकं रेखाग्रे निधाय पुनरुदकमुपस्पृश्योदपात्रमादाय पितृतीर्थेन लेखायाममुकगोत्रास्मत्पितरमुकशर्मन् अवनेनिक्ष्वेत्येवं पितामहप्रपितामहयोरवनेजनं दत्त्वोपमूलथं सकृदाच्छिन्नानि दक्षिणापाणि लेखायामास्तीर्य तत्रावनेजनक्रमणामुकगोत्रास्मत्पितरमुकशर्मन् एतत्तेऽनं स्वधानम इति पिण्डं दत्त्वा इदं पित्रे इति त्यागं विधायैवं पितामहप्रपितामहाभ्यां प्रत्येकं पिण्डं दत्त्वाऽत्रपितर इत्यर्द्धर्च जपित्वा पराडावृत्य वायुं धार्यात्तमना उड्मुख आसित्वा तेनैवावृत्यामी मदन्तेत्यर्द्धर्च जपित्वा पूर्ववदवनेज्य नीवीं विस्रस्य नमोव इति प्रतिमन्त्रमञ्जलिं करोति गृहान्न इत्याशिषं प्राथ्र्यैतद्व इति प्रतिपिण्डं सूत्राणि दत्त्वोर्जमिति पिण्डेष्वपो निषिच्य पिण्डानुत्थाप्य स्थाल्यामवधायावजिव्रति सकृदाच्छिन्नान्यग्नौ प्रास्योल्मुकं प्रक्षिप्योदकं स्पृष्ट्वाऽऽचम्य पिण्डान्वाहार्यकं श्राद्धमारभेदिति पिण्डपितृयज्ञः । क्षुत्तृट्क्रोधत्त्वरायुक्तो हीनमन्त्रो जुहोति यः । अप्रवृद्धे सधूमे वा सोऽन्धः स्यादन्यजन्मनि । स्वल्पे रुक्षे सस्फुलिङ्गे वामावर्ते भयानके । आर्द्रकाप्टैश्च सम्पूर्णे फूत्कारवति पावके ।