________________
प्रथमकाण्डम् |
२३
कण्डिका ]
कृष्णार्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतीर्जुहुयाद्यस्तु तस्य नाशो भवेत् ध्रुवम् । इदं ब्रह्मपुराणे । इति हरिहरभाष्ये द्वितीया कण्डिका ॥ २ ॥
( गदाधरः) --~~ आवसथ्याधानं दारकाले । आवसथं गृहं तत्रस्थोऽग्निरावसथ्य इत्युच्यते तस्याधानं स्थापनमात्मसात्करणमात्मनिष्टफलसाधनकर्मानुष्ठान संपादक संस्कार विशिष्टत्वेन संपादनमिति यावत् तद्दारकाले भवति दारकालशब्देन पाणिग्रहणं स्त्रिया उच्यते चतुर्युत्तरकालन्दारकाल इति सम्प्रदायः । पित्रा प्रत्तामादाय निष्क्रामतीत्येप दारकाल इति भर्तृयज्ञभाष्ये । ' दायाद्यकाल एकेपाम् ' एकेषामाचार्याणां मते दायाद्यकाले अग्न्याधानं भवति । पैतृकद्रव्यस्य भ्रातृभिः सह रिक्थ - विभागकालो दायाद्यकालः तस्मिन्काले खेन द्रव्येण कर्मानुष्ठानसमर्थो भवति साधारणद्रव्यस्य परित्यागासामर्थ्यादनधिकार एव, अतो व्यवस्था भ्रातृमतो दायाद्यकाले अभ्रातृकस्य द्वारकाले । अविभक्तस्यापि विवाहकालेऽपि आधानाधिकार इति मदनपारिजाते । आश्वलायनादीनां वैवाहिकोऽग्निरेवोपासनाग्निर्दृष्टः । अत्र सांख्यायनगृह्ये तु अभिसमावर्त्यमानो यत्रान्त्यां समिधमभ्यादुध्यातमग्निमिन्धीत वैवाह्यं वा दायाद्यकाल एके प्रेते वा गृहपतौ स्वयं ज्यायान्वैशाख्याममावास्यायामन्यस्यां वा कामतो नक्षत्र एक इति । अत्र छन्दोगगृह्ये विशेषः । भूर्भुवः स्वरिति अभिमुखमग्निं प्रणयन्ति प्रेते वा गृहपतौ परमेष्टिकरणं, तथा तिथिनक्षत्रसमवाये दर्शे वा पौर्णमासे बाऽग्निसमाधानं . कुर्वीतेति। तत्र कारिकायां विशेषः । अपि वैवाहिको येन न गृहीतः प्रमादतः । पितर्युपरते तेन ग्रहीतव्यः प्रयत्नतः । कृतदारो न तिष्ठेच क्षणमप्यग्निना विना । तिष्टन् भवेद् द्विजो व्रात्यस्तथाच पतितो भवेत् । पितृपाकोपजीवी स्यात् भ्रातृपाकोपजीवकः । ज्ञानाध्ययननिष्ठो वा न दुष्येताग्निना विना । यथा संध्या यथा स्नानं वेदस्याध्ययनं यथा । तथैवोपासनं प्रोक्तन्न स्थितिस्तद्वियोगतः । योऽग्नि स्मार्तमनादृत्य कर्म स्नानजपादिकम् । होमान्समाचरेद्विप्रो न स पुण्येन युज्यते । यों दद्याकाञ्चनं मेरुं पृथिवी च ससागराम् । तत्सायंप्रातर्होमस्य तुल्यं भवति वा नवा । योऽगृहीत्वा विवाहाग्नि गृहस्थ इति मन्यते । अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः । वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् । प्राणायामत्रयं कृत्वा घृतं प्राग्य विशुध्यति ॥ तथा । कायेऽपि चेद्येन नाधानं तु कृतं पुरा । स कृत्वाऽन्यतमं कृच्छ्रमग्निमव्याहरेत्ततः । एतदाधानं गृहपतौ मृते एकादशाहे द्वादशाहे वा कार्यं तदुक्तं रेणुकदीक्षितैः । एतद्गृहपतौ प्रेते कुर्यादेकादशेऽहनि । प्रागेवैकादशश्राद्धाद्वृद्धिश्राद्धविवर्जितम् । एवं ज्येष्ठः समादध्यात्कनीयांश्च विवर्जयेत् । एकादशेऽह्नि कुर्वन्ति द्वादशे वा विचक्षणाः । अधिकारेऽपि न कुर्वीत मले वास्तंगते गुरौ । तथाह लल: । आधानपुनराधाने न कुर्यात् सिहगे खौ । कालातिक्रमे तु प्रायश्चित्तमुक्तम् । यावन्त्यब्दान्यतीतानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि । कृतदारो गृहे ज्येष्टो यो नादध्यादुपासनम् । चान्द्रायणं चरेद्वर्ष प्रतिमासमहोऽपि वेति । कालप्रसङ्गान्मुहूर्त्तविचारोऽप्यत्र क्रियते । तत्र कारिकायाम् । माघादिपञ्चमासेषु श्रावणे चाश्विनेऽथ वा । कुर्यान्मृगोत्तमाङ्गे वा आधानं शुक्लपक्षतः । मृगोत्तमाङ्गो मार्गशीर्षः । हस्तद्वये विशाखासु कृत्तिकादित्रये तथा । पुनर्वसुद्वये तद्वदेवतीपूत्तरासु च । भौमार्कवर्जिते वारे नाघिमासे क्षये तथा । चन्द्रेऽनुकूले पूर्वांहे रिक्ताविष्टिविवर्जिते । चतुर्थीनवमीचतुर्दश्यो रिक्ताः । सवैधृतिश्च व्यतीपातनामा सर्वोप्यनिष्टः परिवस्य चार्द्धम् । विष्कम्भे टिकास्तिस्रो नव व्याघातवजयोः । गण्डातिगण्डयोः पट् च शूले पञ्च न शोभनाः । महेश्वरः । चूडाकर्मनृपाभिपेकनिलयाग्न्याधानपाणिग्रहान् देवस्थापनमौञ्जिवन्धनविधीन् कुर्यान्न याम्यायने । देवेज्यास्फुजितोस्तथाऽस्तमितयोर्चाल्ये च वार्द्धे तयोः केतावभ्युदिते तथा ग्रहणतो यावत्तिथिश्चाष्टमी | देवेज्यो गुरुः । आस्फुजिच्छुक्रः । केतुनिर्घात भूकम्पविद्युत्स्तनितदर्शने । आधानं नहि कर्तव्यं सुधिया शुभ
I