Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 26
________________ पारस्करगृह्यसूत्रम् । [द्वितीया श्चित्तहोमे । हे अग्ने त्वम् अयाः न यातीत्ययाः या प्रापणे सर्वत्र वाह्याभ्यन्तरावस्थितः असि भवसि । किम्भूतः अनभिशस्तिपाः न विद्यते अभिशस्तिरभिशापो येपान्ते अनभिशस्तयः तान् पाति आत्मसात्कगेति शोधयतीति यावत् प्रायश्चित्तानुष्टानेन कर्मानुष्ठानपरिपालक इत्यर्थः । किञ्च हे अग्ने यस्त्वम् अयाः शुभावहो विधिरसि तत्सत्यमित् सत्यमेव । इत् एवार्थे दीर्घश्छान्दसः । यस्माद्धे अया: नोस्माकम् अयाः सुमनाः स्वाश्रयो वा भूत्वा यजं वहासि वहास, यद्वा यज्ञं यज्ञसम्पादनञ्चरुपुरोडाशादिवस्तुजातकपालुत्वेन देवेभ्यः सम्पादयसि तस्मान्नोऽस्मभ्यम्भैषजं सुखजननन्दुःखध्वंसनरूपमपूर्वन्धेहि देहीति प्रार्थना । विभ्यत्यस्मादितिभेषजं जयतीति भेषजम् । चकारावुत्कर्षसूचनाएँ । 'उदुत्तममिति०' शुनःशेप० त्रिष्टुप्० वारुणी० पाशोन्मोके० । 'भवतन्नः । प्रजापतिः पतिर्जातवेदसावग्निप्रासने । अष्टावितिमन्त्रप्रतीकसंशयव्युदासार्थम् । 'पुरस्तादिति' अग्न्यायदेवताहोमस्य । ताश्चाग्निपवमानाग्निपावकाग्निशुचयोदितिश्चेति । एवमुपरिष्टात्तस्यैवाष्टावाज्याहुतीस्तथैव जुहोति । 'स्विष्टकृत चेति' हविरन्तरे प्राड्महाव्याहृतिभ्यः स्विष्टकृद्धोमो विहितः तस्मै च हुत्वा चकारादाब्याहुतिञ्जुहोति 'अयास्यग्नेरिति मन्त्रेण | अस्यार्थः । तत्र गौतमो गायत्री गातुविदो देवा देवता आज्यहोमे । हे गातुविदो यज्ञवेत्तारो देवाः अग्नेः सम्बन्धि यद्वषट्कृतं हुतं यत् येन कर्मणा यजनविधिना कृत्वा अहमत्यरीरिचम् अधिकृतवानस्मि । तेन कर्मणा प्रसन्नानाम्भवताम्प्रसादात्तदयासि अनश्वरमव्याहतमस्तु । वहिहोमश्वान्न विधानसामर्थ्यादिहैव स्यान्नान्यत्र । ' ब्राह्मणभोजनम् । इत्येक. द्विवहुपु समासस्य तुल्यत्वादेकस्मिन्नपि भोजिते चार्थस्य कृतत्वादेकस्यैव भोजनमिति ॥२॥ (हरिहरः)-आवसथ्याधानन्दारकाले आवसथ्याग्निना साध्यानि कर्माणि व्याख्यातुं प्रतिज्ञातानि प्रथमसूत्रे सूत्रकृता पारस्करेण यतोऽतस्तस्याधानविधिं व्याख्यातमुपक्रमते । आवसथ्यस्य गृह्यस्य अग्नेराधानमावसथ्याधानम् तद्दारकाले विवाहकाले चतुर्थीकानन्तरं कुर्यात् प्राक् चतुर्थीकर्मणः पन्या भार्यात्वस्यानुपपत्तेः सभार्यस्य च आधानेऽधिकारः । वैवाहिकोऽग्निरेवोपासनानिरिसाश्वलायनादीनाम्पक्षः ते हि विवाहहोममेव दाराग्न्योः संस्कारकं मन्यन्ते अस्माकन्तु आवसध्याधानन्दारकाल इत्यारभ्याग्निसंस्कारस्य पारस्कराचार्येण पृथगमिधानात् तत्संस्कारसंस्कृतोऽग्निरौपासनः । दायाद्यकाल एकेपाम् ' एकेपामाचार्याणाम्मते दायाद्यकाले भ्रातृणाम् पितृधनविभागकाले । अविभक्त हि पित्र्ये धने सर्वेपाम्भ्रातृणां स्वत्वम्य साधारणत्वेन विनियोगानहत्वात् धनविनियोगसाध्यं हि आवसथ्यादिकर्मानुष्ठानम् । अतो भ्रातृमतां विभक्तानामाधानेऽधिकार इति तेपामभिप्रायः । अभ्रातृकस्य दारकाले एवं व्यवस्थितो विकल्पः । एवमृतविवाहस्य विभक्तधनस्य च आधाने अधिकारमभिधाय इदानीमाहरणपक्षे आधानमाह । 'वैश्यस्य बहुपशोरॅहादग्निमाहत्य । चानुप्राश्यपचनवत्सर्वम् । तत्रावसथ्याधानकरिष्यन् उक्तकालातिक्रमाभावे ज्योति.शास्त्रे अग्न्याधानापिदिष्टमासतिथिनक्षत्रवारादिके काले प्रातः सुनातः सुप्रक्षालितपाणिपादः स्वाचान्तः सपबीका गोमयोपलिमे शुचौ देश म्वासने उपविश्य अद्येहेत्यादिदेशकालौ स्मृत्वा आवसभ्याग्निमहमाधान्य इति सहल्पं विधाय मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं यथोक्तं कुर्यात् । कालातिक्रमेतु "यावन्त्यदान्यतीतानि निरग्नेविप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धौम्यं दद्याद्यथाविधि" इति वचनान अतिकान्नमम्वत्सरसाद यया प्राजापत्यरूपम्प्रायश्चित्तम्मुख्यविधिना चरित्वा तदशक्ती प्रतिप्राजापत्यवान्दत्वा नदला तन्मृल्यं निष्कमेकमन्तदई वा द्वादशवाह्मणभोजनमयुतगायत्रीजपं वागायच्या निलायमानहोम वा गवत्यपेक्षयाऽन्यतमं विधाय होम्यं सायम्यानहमिद्रव्यं प्रत्यहमाहनिचतुष्टयपानमनियन्तदिवसान गणयित्वा प्रामणेभ्यो दद्यात् । तत्रावनध्यप्रगंगावाम्यं गृपफा । "नानसा यात्यगे धम्मों नावसध्यात्परन्तपः । नाचमध्यात्परं दानन्नावस यात्परं भनम । नाव.

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 560