________________
पारस्करगृहासूत्रम् ।
[प्रथमा हि स्मरणमष्टकादीनामष्टकाः कर्तव्या इति । अनादिरयं संसारः स्मरणमप्येपामनायेवेति । ननु चोक्तमापस्तम्वेन तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त इति तस्माद्वेदमूलकत्वम् । नैतदेवम् । शाखानामुत्सादस्तु सतीनामेव भवति नासतीनाम् । तत्र चायं दोपः स्यात् य एव कश्चित्काञ्चिच्छाखां न पठति तस्यैतद्विहितं स्मार्त स्यात् यस्तु पठेत्तस्य श्रौतमिति । तत्र पुरुपापेक्षया तदेव श्रौतं स्मात चेत्ययुक्तरूपता स्यात् , स्मरणात्स्मृतिरिति संज्ञा चान्वर्थिकी, युक्तकर्मानुष्ठानञ्च स्मरणं मनुगौतमवसिष्ठापस्तम्बादिभिर्ग्रन्थेनोपनिवद्धम् , तस्मात्कर्व्वसामान्यादनुष्ठेयोऽयमर्थ इत्यनुमीयते । तथा च लिङ्गम् , नैमित्तिकं व्याहृतिहोमं प्रकृत्यामनन्ति, यवृक्तो भूरिति चतुर्गृहीतमाज्यं गृहीत्वा गार्हपत्ये जुहक्थ, यदि यजुष्टो भुव इत्याग्नीवीये अन्वाहार्यपचने वा हविर्यज्ञे यदि सामतः स्वरित्यावनीय इति प्रकृत्याह-यद्यविज्ञातमसत्सर्वाणि अनुद्रत्याह्वनीये जुहवथेति । अविज्ञातं च यन्न ज्ञायते किमार्वेदिकम् किंवा याजुर्वेदिकम् सामवेदिकं वेति विनष्टञ्च यत्तत् स्मार्तमविज्ञातमित्युच्यते । वेदमूलकत्वे ह्यवश्यमेवान्विप्यमाणं जायेत तत्किम्मूलमिति, तस्मात्स्मृतिप्रवाहादेवायमर्थोऽनुष्ठेय इति गम्यते इति । श्रौतस्मातत्वचिन्ताप्रयोजनं नित्यत्वादिज्ञापनार्थम्, औतन्नित्यङ्काम्यं स्मार्तश्च नित्यमिति । 'गृह्यस्थालीपाकानामिति' गृह्यः शालाग्निः आवसथ्याग्निः औपासन इति नार्थान्तरम् । तत्र ये स्थालीपाकाः स्थालीपाकग्रहणञ्चाज्यपुरोडागधानासक्त्वाद्युपलक्षणार्थम् । यतः स्थालीपाकमुपक्रम्याज्यमुपसंहरति 'निरुग्याज्यमधिश्रित्य ' इति । एवमाज्यग्रहणमपि स्थालीपाकाग्रुपलक्षणम् , यतः सर्वेषामेवेदं साधारणङ्कोच्यते नात्र प्रकृतिविकृतिभाव इति । विध्यादिवि. ध्यन्तवती प्रकृतिः । यत्र पुनर्विध्यादिमानं विध्यन्तस्तु नास्ति सा विकृतिरिति । न चात्र विध्यादिविष्यन्तस्वरूपता, यतः सर्वाण्येव स्थालीपाकादीनि प्रकृत्य धर्मविधानम् । परिसमुह्य' इत्यादि सूत्रम् । तत्र परिसमूहनादयः पञ्च पदार्था भूमिशुद्धयर्था इति केचित् । तद्युतम् । नाशुद्धे देशेऽग्निस्थापनप्रवृत्तिर्युक्तेति तस्मादग्न्यर्थी एवेत्यपरे । अतो यत्र यत्राग्नेः स्थापनन्तत्र तत्रैते कर्तव्याः न च गृह्यस्थालीपाकादिकर्मान्तर्भाव एपाम्, 'यत एष एव विधिर्यत्र कचिद्धोम' इत्यभिहिते पुनरभिधीयतेउपलिउद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनेनाप्रवृत्तिस्तत्रैषाम् तस्मादग्न्या एवैत इति । तथा च लिङ्गम्-उद्धते वा अवोक्षितेऽग्निमादधातीति । तत्प्रयोजनञ्च स्वस्थानस्थित एवाग्नौ क्रियमाणे स्थालीपाकादौ नैते क्रियन्त इति । 'दक्षिणतो ब्रह्मासनमास्तीर्य' इत्यासनमानं स्यात् न ब्रह्मोपवेशनम् , आस्तरणमानोपदेशात कचिच्चोपवेशनविधानाद्दक्षिणतो ब्रह्माणमुपवेश्येति । तन्न । अदुःटप्रसङ्गात् , नादृष्टाथै कश्चिदासनप्रकल्पनङ्कुर्यात्-ब्रह्मासनव्यपदेशानुपपत्तेश्च, तस्माद्ब्रह्मोपवेशनार्थमास्तरणम् । यत्तूक्तम् दक्षिणतो ब्रह्माणमुपवेश्येति तदुदपात्रस्थापनावसरविधित्सया । प्रस्तुतब्रह्मोपवेशनञ्चास्य ज्ञापकम् ब्रह्मासनमास्तीर्य कर्तव्यम् । 'प्रणीयः किम् अपः । अपां हि प्रणयन सर्वार्थ दृष्टम् तद्वदिहापि सर्वार्थानामपां प्रणयनम् । 'परिस्तीर्य' किम् अग्निम् । 'अर्थवदासायेति' प्रयोजनवत्पात्रजातमासाद्येत्यर्थः । प्रयोजनश्च कार्यक्रमेण मुख्यक्रमानुरोधात् । 'पवित्रे कृत्वा' यथा प्रदेशान्तरे कृते तथैवेति । 'प्रोक्षणीः संस्कृत्य' उत्पवनोद्दिजनादिना । 'अर्थवत्प्रोक्ष्य' इत्यनेन कार्यवताम्प्रोक्षणम् ॥ 'निरुप्याज्यमधिश्रित्य ' इत्याज्यस्य निर्वाप औपयिकस्य पृथक्रिया । 'अधिश्रित्य अग्नौ । 'पर्यग्नि कुर्यात् । आज्यं स्थालीपाकादि च, उपलक्षणत्वादाज्यस्य । घुवं प्रतप्य अधोमुखं तापयित्वा पुष्करतः । तमेव दमैंः 'संमृज्याभ्युक्ष्य' च पुनः प्रतप्य तथैव निध्याइक्षिणतः । 'आज्यमुद्रास्य' अग्नेः सकाशाचरोः पूर्वेण अग्नरुत्तरतोऽवस्थाप्य तदुत्तरतः स्थालीपाकमपि । तदेवाज्यमुत्पूय पवित्राभ्याम् । अवेक्ष्य अपद्रव्यमपाकर्तुम् । 'प्रोक्षणीश्च' पूर्ववदुस्पूय । चशब्दादाज्यं च पूर्ववत् अतः पवित्राभ्यामित्युक्तम् प्रोक्षणीसंस्कारश्च पर्युक्षणार्थः,