________________
कण्डिका ]
प्रथमकाण्डम् ।
स्रुवसंस्कारश्च होमार्थः, तत्संस्कारस्यादृष्टार्थता माभूदिति । उपयमना उपग्रहणार्था ये दर्भाः । पर्युक्षणं च प्रोक्षणीभिरित्युक्तम् । 'एष एव विधिरिति ' यत्र होमस्तत्रैष विधिरेव न तु मन्त्राः समाम्नायाभावात् । 'यत्र क्वचिद्धोम' इति शान्तिकपौष्टिकादिष्वपि । कचिद्ग्रहणञ्च गृह्याग्निव्यतिरेकेणापि यथायं विधिः स्यादिति । यथा दावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयादिति ॥ १ ॥ (३) हरिहरविरचितं पारस्करगृह्यसूत्र व्याख्यानम् । इष्टापूर्तक्रियासिद्धिहेतुं यज्ञभुजां मुखम् । अग्निं त्रयीवचःसारं वन्दे वागधिदैवतम् ॥ १ ॥ पारस्करकृते गृह्यसूत्रे व्याख्यानपूर्विकाम् । प्रयोगपद्धतिं कुर्वे वासुदेवादिसंमताम् ॥ २ ॥
'अथातो गृह्यस्थालीपाकानां कर्म ' अथ श्रौतकर्मविधानानन्तरम्, यतः श्रौतानि कर्मा - णि विहितानि स्मार्तानि तु विधेयानि अतो हेतोर्गृह्ये आवसथ्येऽग्नौ ये स्थालीपाका : गृह्यस्थालीपाकाः तेषां गृह्यस्थालीपाकानां कर्म क्रियाऽनुष्ठानमिति यावत् । वक्ष्यत इति सूत्रशेषः । तत्रादावाधानादिसर्वकर्मणां साधारणो विधिः प्रथमकण्डिकयोच्यते । तत्र गृह्येष्वावसथ्याधानादिषु सर्वकर्मसु यजमान एव कर्ता नान्य ऋत्विक् तस्यानुक्तत्वात् । अथ यजमानः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तः कर्मस्थानमागत्य वारणादियज्ञियवृक्षोद्भवासने प्रागग्रानुद्गग्रान्वा त्रीन्कुशान्दत्त्वा प्रा ङ्मुख उपविश्य वाग्यतः शुद्धायां भूमौ सप्तविंशत्यङ्गुलं मण्डलं परिलिख्य तत्र । 'परिसमुह्य' त्रिभिर्दभैः पांसूनपसार्य ' उपलिप्य' गोमयोदकेन त्रिः । ' उल्लिख्य ' त्रिः खादिरेण हस्तमात्रेण खड्डाकृतिना स्पयेन प्रागया उदक्संस्था: स्थण्डिलपरिमाणास्तिस्रो रेखाः कृत्वा । 'उद्धृत्य' अनामिकाङ्गुष्ठाभ्यां यथोल्लिखिताभ्यो लेखाभ्यः पांसूनुद्धृत्य । 'अभ्युक्ष्य ' मणिकाद्भिरभ्युक्ष्याभिषिच्य । 'अग्निमुपसमाधाय ' कर्मसाधनभूतं लौकिकं स्मार्तं श्रौतं वाऽग्निम् आत्माभिमुखं स्थापयित्वा । ' दक्षिणतो ब्रह्मासनमास्तीर्य' तस्याग्नेर्दक्षिणस्यां दिशि ब्रह्मणे आसनं वारणादियज्ञियदारुनिर्मितं पीठमास्तीर्य कुशैः स्तीर्त्वा तत्र वरणाभरणाभ्यां पूर्वसम्पादिर्त कर्मसु तत्त्वज्ञं ब्रह्माणं तदभावे पञ्चाशत्कुशनिर्मितम् अग्नेरुत्तरतः प्राङ्मुखमासीनं स्वयमुदङ्मुख आसीनोऽनुलेपनपुष्पमाल्यवस्त्रालङ्करादिभिः सम्पूज्य अमुक्तकर्माहं करिष्ये तत्र मे त्वममुकगोत्रामुकप्रवरामुकशर्मन् ब्राह्मण त्वं ब्रह्मा भवेति वृत्वा भवामीत्युक्तवन्तमुपवेश्य । 'प्रणीय' अप इति शेषः । तद्यथा अग्नेरुत्तरतः प्रागयं कुशैरासनद्वयङ्कल्पयित्वा वारणं द्वादशाङ्गुलदीर्घं चतुरङ्गुलविस्तारं चतुरङ्गुलखातं चमसं सव्यहस्ते कृत्वा दक्षिणहस्तोद्धृतपात्रस्थोदकेन पूरयित्वा पश्चिमासने निधायालभ्य पूर्वासने स्थापयित्वा । 'परिस्तीर्य ' अग्निम्, बर्हिर्मुष्टिमादाय ईशानादिप्रागमैर्वहिंर्भिरुदक्संस्थमग्नेः परिस्तरणं कृत्वा । 'अर्थवदासाद्य' यावद्भिः पदार्थैरर्थः प्रयोजनं तावतः पदार्थान द्वन्द् प्राक्संस्थान् उद्गग्रानग्नेरुत्तरतः पश्चाद्वा आसाद्य । तद्यथा पवित्रच्छेदनानि त्रीणि कुशतरुणानि - पवित्रे साग्रे अनन्तर्गर्भे द्वे कुशतरुणे, प्रोक्षणीपात्रं वारणं द्वादशाङ्गुलदीर्घं करतलमितखातं पद्मपत्राकृति कमलमुकुलाकृति वा, आज्यस्थाली तैजसी मृन्मयी वा द्वादशाङ्गुलविशाला प्रादेशोचा, तथैव चरुस्थाली, संमार्गकुशास्त्रयः, उपयमनकुशास्त्रिप्रभृतयः, समिधस्तिस्रः पालाश्यः प्रादेशमात्र्यः, स्रुवः खादिरो हस्तमात्रः अङ्गुष्टपर्वमात्रखातपरिणाहवर्तुलपुष्करः । आज्यं गव्यम् । चरुश्चेद्रीहितण्डुलाः, षट्पञ्चाशद्धिकमुष्टिशतद्वयपरिमितं परायै बहुभोक्तृपुरुषाहारपरिमितमपरार्ध्यं तण्डुलाधन्नं, पूर्णपात्रं दक्षिणा वरो वा यथाशक्ति हिरण्यादिद्रव्यम् । 'पवित्रे कृत्वा' प्रथमं त्रिभिः