________________
ausar ]
1
प्रथमकाण्डम् |
(२) जयरामकृतं सज्जनवल्लभारूपं गृह्यविवरणम् ।
श्रीमत्केशववाग्गणाधिपपदद्वन्द्वप्रभाभासुर
स्वान्तोत्साह विजृम्भितामलमतिप्राये च गृह्ये कृतेः । दृष्ट्वा कर्कमुखैः कृतानि बहुशो भाष्याणि गृह्याणि तद्वेशार्थे स्वमतेरिदं जयपरो रामो लिखत्यादरात् ॥ १ ॥ कतिसूनुपदाम्भोजपरागोद्धूसरालकः । जयरामच मेवाडो भारद्वाजसगोत्रकः ॥ २ ॥ श्रीमन्मान्त्रिक माधवः श्रुतिसुधा सिन्धोर्विगाहाप्तत
द्वेद्यस्तत्कृपयाऽभवद् द्विजवर : श्रीकेशवस्तादृशः । तत्पादद्वयकस्पृशा कृतमिदं कातीयगृह्यस्य स -
यं सज्जनवल्लभं सुविदुषां प्रेष्टं शिवप्रीतये ॥ ३ ॥ आचार्यापरनामधेय इति यो दामोदरोऽभूद्र द्विजो
भारद्वाजसगोत्र आत्मरतिरस्याप्यात्मजस्तादृशः । नाम्ना श्री बलभद्र आत्तसुयशास्तत्सूनुनैतत्कृतं
भाष्यं सज्जनवल्लभं जययुजा रामेण मत्याप्तये ॥ ४ ॥ पाठे योऽभूद्विसंवादो गृह्यसूत्रे समन्त्रके । उपेक्षितः सविदुषां मतमाज्ञाय युक्तितः ॥ ५ ॥ प्रयुक्ता अन्यथा मन्त्रा न भवन्त्यर्थसाधकाः । संसाधयन्ति सर्वार्थान्यथावत्पठिता यदि ॥ ६ ॥ नानाशाखीयमन्त्राणां पाठशुद्धौ स्वपाठकाः । व्याख्यातारः प्रमाणं स्युरित्येतच्छिष्टनिश्चयः ॥ ७ ॥ अतस्तत्तत्स्वशाखीयमन्त्राणामप्यपाठकात् । पृष्ट्वा सुवोधं गृह्यस्य भाष्यं वै लिख्यते स्फुटम् ॥ ८ ॥ तत्क्षन्तव्यं सुनिपुणैः स्ववालचापलं यथा ।
मया च स्वीयवोधाय क्रियते न तु तद्विदाम् ॥ ९ ॥
आदौ तावत्सूत्रकृता श्रतान्याधानादिकर्माण्युक्तानि स्मार्तानि चाभिधीयन्ते । तत्रैतदादिमं सूत्रम् -'अथातो गृह्यस्थालीपाकानां कर्मेति' वक्ष्यत इति सूत्रशेषः । तत्रायमथशब्द आनन्तर्ये । श्रौतानुविधानानन्तरं स्मार्तान्यनुविधीयन्त इति ॥ आनन्तर्यप्रज्ञप्तिप्रयोजनञ्च श्रतेष्वधिकाराद्युपस्पृशेदप इत्येवमन्तं सर्वकर्मसाधारणं यत्तस्यात्रापि प्रवृत्तिर्यथा स्यादिति ॥ पूर्वं श्रौतानामुपनिबन्धनं प्रवृत्तमित्येतत्सूत्रकारप्रवृत्त्या ज्ञायते - प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदिति । श्रतेषु गृहोपस्थानमुक्तं तत्पूर्ववदित्यनेनात्रातिदिश्यते, तथा प्रोक्षणीच पूर्ववदिति । अतः शब्दो हेत्वर्थः ॥ यस्माच्छ्रौतान्युक्तानि स्मार्तान्येवावशिष्यन्ते, अतस्तानि वक्तव्यानीति । ननु पूर्व स्मार्तानां गर्भाधानादीनामनुष्ठानं पञ्चाच्छ्रतानामित्यतोऽनुष्ठानक्रमेण स्मार्तान्यादौ वक्तव्यानि । तन्न, प्रत्यक्षश्रुतित्वात् । प्रत्यक्षा हि श्रुतयोऽनुमेयाभ्यो बलीयस्य इति । श्रतेषु च प्रत्यक्षाः श्रुतयः, स्मार्तेषु तु कर्तृसामान्यादनुमेया इति । स्मार्तानामपि वेदमूलकत्त्रमुक्तं भट्टैः । तस्मात्प्रत्यक्षश्रवणाच्छ्रौतान्येव पूर्वमेवानुविहितानीति । केचित्पुनरन्यथा वर्णयन्ति स्मरणादेव स्मृतीनां प्रामाण्यम्, अव्यवच्छिन्नं
1