________________
पारस्करगृह्यसूत्रम् ।
[प्रथमा
पठेत्तस्य औतमिति । तत्र पुरुषापेक्षया तदेव श्रौतं स्मात चेत्ययुक्तरूपता स्यात् । स्मरणात्स्मृतिरिति चान्वर्थिकी संज्ञा, युक्तकर्मानुष्ठानं स्मरणं मनुगौतमवसिष्ठापस्तम्बादिभिर्यन्थनोपनिवद्धम् । तस्माकर्तृसामान्यानुप्टेयोऽयमर्थ इत्यनुमीयते । तयाच लिहुम् । नैमित्तिकं व्याहृतिहोम प्रकृत्यामनन्ति, यवृत्तो भूरिति चतुर्ग्रहीतमाज्यं गृहीत्वा गार्हपत्ये जुहवय, यदि यजुष्टो भुव इत्याग्नीत्रीये अन्चाहार्यपचने वा हविर्यने, यदि सामतः स्वरित्याहवनीय इति प्रकृत्याह यद्यविज्ञातं तत्सर्वाण्यनुदूत्याहवनीचे जुहवथेति । अविज्ञातं च यन्न विज्ञायते किमार्वेदिकं याजुर्वेदिकं सामवेदिकं वेति विनष्टं कर्म तत्स्मार्तमविज्ञातमित्युच्यते । वेदमूलत्वे ह्यवश्यमेवान्विष्यमाणं ज्ञायेत तत्किमूलमिति, तस्मात्स्मृतिप्रवाहादेवायमर्थोऽनुष्ठेय इति गम्यते । 'गृह्यस्थालीपाकानां कर्मेति' गृह्यः शालाग्निः आवसथ्य औपासन इत्यनान्तरं, तत्र ये स्थालीपाकाः ते गृह्यस्थालीपाकाः, स्थालीपाकग्रहणं चायपुरोडाशधानासवाद्युपलझणार्थम् । कथं ज्ञायते । येन स्थालीपाकमुपक्रम्याज्यमुपसंहरति निरुप्याज्यमधिश्रित्येत्येवमादि । आज्यग्रहणमपि स्थालीपाकाद्युपलक्षणार्थमेव । सर्वेषामेवेदं साधारणं कर्मोच्यते । नह्यत्र प्रकृतिविकारभाव इति । विध्यादिविष्यन्तवती प्रकृतिरित्युच्यते, यत्र पुनर्विच्यादिमानं विध्यन्तो नास्ति सा विकृतिरिति । न चात्र विध्यादिविध्यन्तस्वरूपता, सर्वाण्येव स्थालीपाकादीनि प्रकृत्य धर्मविधानम् । 'परिसमुह्योपलिप्योल्लिख्योद्धृत्याभ्युक्ष्याग्निमुपसमाधायेत्येवमादि पर्यग्निकुर्यादित्येवमन्तं सूत्रम् ' परिसमूहनादयः पञ्च पदार्था भूमिशुद्ध्यर्था इति केचित् । तद्युक्तम् । नह्यशुद्धे देशेऽमेः स्थापनप्रवृत्तियुक्तेति, तस्मादग्न्यर्थी एव । यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्या इति । न च गृह्यस्थालीपाकादिकर्मान्तर्भाव एषाम् , येनैष एव विधिर्यत्र कचिद्धोम इत्यभिहितेऽपि पुनरभिधीयते उपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनेनाप्रवृत्तिस्तत्रेति । तस्मादग्न्यर्था एवैत इति । तथाच लिङ्गम् । उद्धते वो अवोक्षितेऽग्निमादधातीति । प्रयोजन स्वस्थानस्थित एवाग्नौ क्रियमाणे स्थालीपाकादौ न क्रियन्ते । दक्षिणतो ब्रह्मासनमास्तीर्य' इत्यासनमात्रं स्यात् न ब्रह्मा, आस्तरणमात्रोपदेशान् कचिचोपवेशनविधानादक्षिणतो ब्रह्माणमुपवेश्येति । नैतत् , अष्टप्रसङ्गात्-नादृष्टाय कश्चिदासनप्रकल्पनं कुर्यान्-ब्रह्मासनव्यपदेशानुपपत्तेश्व, तस्मादुपवेशनार्थमास्तरणम् । यत्तूक्तं दक्षिणतो ब्रह्माणमुपवेश्येति तदुदपात्रावसरविवित्सया प्रस्तुतब्रह्मोपवेशनज्ञापक, ब्रह्मासनं चास्तीर्य कर्तव्यम् । 'प्रणीय : अपः, अपां हि प्रणयनं सर्वार्थ दृष्टम् , इहापि तद्वत्सर्वार्थानामपा प्रणयनम् । 'परिस्तीर्य : अग्निम् । 'अर्थवदासाद्येति' प्रयोजनवत्पात्रजातमासादयतीत्यर्थः । तच्च कार्यक्रमेण मुख्यक्रमानुग्रहान् । 'पवित्रे कृत्वा यथा प्रदेशान्तरे कृते इति । 'प्रोक्षणीः संस्कृस्य : उत्पवनोद्दिङ्गनादिना । अर्थवत्प्रोक्ष्य' कार्यवतः प्रोक्षणम् । 'निरुप्याव्यमधिश्रित्य', आज्यनिर्वाप औपयिकस्य पृथक्रिया । अधिश्रित्य अग्नौ । 'पर्यग्नि कुर्यात् । आज्यं स्यालीपाकं चेति । उपलक्षणार्थवादाज्यस्य । 'वं प्रतप्य' तापयित्वा । तमेव दभैः ‘सम्मृज्याभ्युक्ष्य पुनः प्रतप्य निध्यात् । आज्यमुद्रास्य । अग्नेः सकाशात् । 'उत्पूय' पवित्राभ्यां तदेवाज्यम् । 'अन्य प्रोक्षणीश्च पूर्व वन्' चाब्दादाज्यं पूर्ववदेव, अत. पवित्राभ्यामित्युक्तम् । प्रोक्षणीसंस्कारश्च पर्युक्षणार्थः । सुवस्यापि संस्कारो होमार्थः तत्संस्कारस्यादृष्टार्थता माभूदिति । 'उपयमनान्कुशानादाय समिधोऽभ्याधायेति । उपचमना उपग्रहार्थीया दर्भाः। 'पर्युक्ष्य जुहुयात् । पर्युक्षणं प्रोक्षणीभिरित्युक्तम् । 'एप एव विधियंत्र फचिद्धोम इति । ' एप विधिरेव न मन्त्राः समानायाभावात् । यत्र कचिद्धोमः शान्तिकपोष्टिकादिवपीति, कचिच्छन्दश्च गृह्याग्निव्यतिरेकेणापि यथाऽयं विधिः स्यादिति । यथा दावानिमुपसमाधाच घृताक्तानि कुलोण्डानि जुहुयादिति ॥१॥