Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 13
________________ ausar ] 1 प्रथमकाण्डम् | (२) जयरामकृतं सज्जनवल्लभारूपं गृह्यविवरणम् । श्रीमत्केशववाग्गणाधिपपदद्वन्द्वप्रभाभासुर स्वान्तोत्साह विजृम्भितामलमतिप्राये च गृह्ये कृतेः । दृष्ट्वा कर्कमुखैः कृतानि बहुशो भाष्याणि गृह्याणि तद्वेशार्थे स्वमतेरिदं जयपरो रामो लिखत्यादरात् ॥ १ ॥ कतिसूनुपदाम्भोजपरागोद्धूसरालकः । जयरामच मेवाडो भारद्वाजसगोत्रकः ॥ २ ॥ श्रीमन्मान्त्रिक माधवः श्रुतिसुधा सिन्धोर्विगाहाप्तत द्वेद्यस्तत्कृपयाऽभवद् द्विजवर : श्रीकेशवस्तादृशः । तत्पादद्वयकस्पृशा कृतमिदं कातीयगृह्यस्य स - यं सज्जनवल्लभं सुविदुषां प्रेष्टं शिवप्रीतये ॥ ३ ॥ आचार्यापरनामधेय इति यो दामोदरोऽभूद्र द्विजो भारद्वाजसगोत्र आत्मरतिरस्याप्यात्मजस्तादृशः । नाम्ना श्री बलभद्र आत्तसुयशास्तत्सूनुनैतत्कृतं भाष्यं सज्जनवल्लभं जययुजा रामेण मत्याप्तये ॥ ४ ॥ पाठे योऽभूद्विसंवादो गृह्यसूत्रे समन्त्रके । उपेक्षितः सविदुषां मतमाज्ञाय युक्तितः ॥ ५ ॥ प्रयुक्ता अन्यथा मन्त्रा न भवन्त्यर्थसाधकाः । संसाधयन्ति सर्वार्थान्यथावत्पठिता यदि ॥ ६ ॥ नानाशाखीयमन्त्राणां पाठशुद्धौ स्वपाठकाः । व्याख्यातारः प्रमाणं स्युरित्येतच्छिष्टनिश्चयः ॥ ७ ॥ अतस्तत्तत्स्वशाखीयमन्त्राणामप्यपाठकात् । पृष्ट्वा सुवोधं गृह्यस्य भाष्यं वै लिख्यते स्फुटम् ॥ ८ ॥ तत्क्षन्तव्यं सुनिपुणैः स्ववालचापलं यथा । मया च स्वीयवोधाय क्रियते न तु तद्विदाम् ॥ ९ ॥ आदौ तावत्सूत्रकृता श्रतान्याधानादिकर्माण्युक्तानि स्मार्तानि चाभिधीयन्ते । तत्रैतदादिमं सूत्रम् -'अथातो गृह्यस्थालीपाकानां कर्मेति' वक्ष्यत इति सूत्रशेषः । तत्रायमथशब्द आनन्तर्ये । श्रौतानुविधानानन्तरं स्मार्तान्यनुविधीयन्त इति ॥ आनन्तर्यप्रज्ञप्तिप्रयोजनञ्च श्रतेष्वधिकाराद्युपस्पृशेदप इत्येवमन्तं सर्वकर्मसाधारणं यत्तस्यात्रापि प्रवृत्तिर्यथा स्यादिति ॥ पूर्वं श्रौतानामुपनिबन्धनं प्रवृत्तमित्येतत्सूत्रकारप्रवृत्त्या ज्ञायते - प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदिति । श्रतेषु गृहोपस्थानमुक्तं तत्पूर्ववदित्यनेनात्रातिदिश्यते, तथा प्रोक्षणीच पूर्ववदिति । अतः शब्दो हेत्वर्थः ॥ यस्माच्छ्रौतान्युक्तानि स्मार्तान्येवावशिष्यन्ते, अतस्तानि वक्तव्यानीति । ननु पूर्व स्मार्तानां गर्भाधानादीनामनुष्ठानं पञ्चाच्छ्रतानामित्यतोऽनुष्ठानक्रमेण स्मार्तान्यादौ वक्तव्यानि । तन्न, प्रत्यक्षश्रुतित्वात् । प्रत्यक्षा हि श्रुतयोऽनुमेयाभ्यो बलीयस्य इति । श्रतेषु च प्रत्यक्षाः श्रुतयः, स्मार्तेषु तु कर्तृसामान्यादनुमेया इति । स्मार्तानामपि वेदमूलकत्त्रमुक्तं भट्टैः । तस्मात्प्रत्यक्षश्रवणाच्छ्रौतान्येव पूर्वमेवानुविहितानीति । केचित्पुनरन्यथा वर्णयन्ति स्मरणादेव स्मृतीनां प्रामाण्यम्, अव्यवच्छिन्नं 1

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 560