Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan
View full book text
________________ संरचना बृहद्वृत्तेः पूर्वं समजनि तस्या नैकेंऽशाः बृहद्वृत्तौ तट्टीकारेण समुद्धृत्ता वर्तते संक्षिप्तविस्तरादिशैलीभिन्नतया द्वयोरध्ययनमावश्यकम् / लघुटीकाया वैशिष्टपूर्ण कतिपयपदानां भावानुवादो मया परिशिष्टे निवेशितः / एवम्, उपदेशग्रन्थचूडामणि-विद्वज्जनचकोरचन्द्र-पञ्चाशकप्रकरणस्य यशोभद्रीया लघ्वक्षरा विशदर्था टीका श्रीसङ्गकरकमले समर्प्यते / उपधानप्रतिष्ठा पञ्चाशकम् श्राद्धजनोचितस्य श्राद्धजनकरणीयस्य उपधानतपसि किं प्रयोजनम् ? इति प्रश्नस्य सुविहितशिरोमणिपूज्यपादहरिभद्रसूरिविरचित पञ्चाशद्गाथाप्रमिते उपधानप्रतिष्ठापञ्चाशकप्रकरणे तर्कागमपरिपूर्ण समाधानं लभ्यते / जेसलमेरताडपत्रीयज्ञानभाण्डागारे त.ता.१ प्रतेः अनुक्रमसूचिपत्रे “विंशतितमं उपधानप्रतिष्ठापञ्चाशकः" इति नामोल्लेखः प्राप्यते / तथास्मिन् पञ्चाशकेऽन्तिमगाथायां "कुग्गह विरहेण" इति "विरह" पदेन श्रीहरिभद्रसूरीणामेतद्ग्रन्थकतृतया निश्चयो जायते / मुनिश्रीजम्बूविजयझेरोक्षसूचिपत्रे प्रतावपि श्रीहरिभद्रसूरिनामोल्लेखो दृश्यते / तदेवम्-पञ्चाशक प्रकरणं (प्रा.) विभागः उपधानविधि पञ्चाशकप्रकरणं( 20) प्रा. गाथा (50) नमिऊण वद्धमाणं इत्यादि पदम् / प्रतिक्रमाङ्कः पट्टण ज्ञानभाण्डागारे पा.ता.संघवी-१५३-२, स्तम्भनपुरज्ञानभाण्डागारे - खंता (129), अयं ग्रन्थः प्रथमपरिशिष्टे द्रष्टव्यः / परिशिष्टपरिचयः प्रकृतगन्थपरिसमाप्त्यनन्तरं परिशिष्टा दर्शिताः तदेवम् - 1. उपधानप्रतिष्ठा-पञ्चाशकम् 2. श्रीपञ्चाशकमूलगाथानामकारादिक्रमः 3. श्रीपञ्चाशकटीकान्तर्गतान्तरश्लोकानामकारादिक्रमः 4. पञ्चाशकवृत्तिगत गद्योद्धरणानामकाराद्यनुक्रमः 5. यशोभद्रीयवृत्तौ नोल्लेखिता मलोट्टङ्किताः श्रीअभयदेवीयवृत्तितः समृद्धताः द्रष्टान्ताः 6. "अन्ये तु" - इत्यादिना श्रीअभयदेवीयवृत्तिसंगृहीताः श्रीयशोभद्रीयसूरिवचनांशवः 7. प्रकृतटीकाया महत्वपूर्णकतिपयपदानां भावानुवादः / परमोपकारीणां परिचयः * बाल्यकालतः स्वदर्शन-धर्मश्रावणादिना धर्मसंस्कारदातारः अनन्तोपकारिव्याख्यानवाचस्पतिपूज्याचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराः * संयमधर्म-हितशिक्षाप्रदातारः संयमसुरभितजीवनरचयितारः समर्पणादिगुणग्रामधारकाः 12

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 355