Book Title: Panchashak Prakaranam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthan

View full book text
Previous | Next

Page 11
________________ विचारसारः आ. प्रद्युम्नसूरिः उपदेशरहस्यः उपा. यशोविजयः अध्यात्ममतपरीक्षा उपा. यशोविजयः सामाचारी उपा. यशोविजयः द्रव्यसप्ततिका पू. लावण्यविजयः हितोपदेशमाला आ. विजयानन्दसूरिः श्राद्धदिनकृत्यम् आ. देवेन्द्रसूरिः 15 धर्मसंग्रहः उपा. मानविजयः श्रीपञ्चाशकप्रकरणस्य साधिकत्रिशतगाथासमुदायोऽन्येष्वनेकग्रन्थेषु दृश्यते / हारिभद्रीयवचनामृतं तत्पश्चिमवति विद्वद्भिर्महापुरुषैः वारं वारमापीय तद्वचनसुधाकिरः स्वग्रन्थेऽपि संगृह्य तत् श्रुतप्रवाहोऽस्मत्प्रभृति प्रवाहितः / सो गाथासमूहो विस्तरभयान्नात्र निदर्श्यते / अनेकानेकप्रयत्नान्तेऽपि टीका अपूर्णा / / पूज्याचार्ययशोभद्रसूरिविरचिता पञ्चाशकप्रकरणस्य टीका ताडपत्रीयप्रतौ भिक्षुप्रतिमा (18) पञ्चाशकस्य षट्चत्वारिंशद् गाथाप्रभृति प्राप्यते / अनेकग्रन्थविलोकनान्तेऽपि श्रीटीकाकारमहर्षिणा सम्पूर्णटीकासंरचनविषये शुद्धिर्न प्राप्ता / अतस्तदग्रे शेषग्रन्थस्य टीकारूपेण अभयदेवीया वृत्तिः निरूपिता इति तु ध्येयम् / टीका-परिचयः पूज्याचार्ययशोभद्रसूरिरचिता ताडपत्रीयटीका लेखिता वि. सं. 1121 / अस्याः पुष्पिकायां नवाङ्गीकृत् श्रीअभयदेवसूरेर्नामोल्लेखोऽस्ति / श्रीनवाङ्गीटीकाकारेण वि. सं. 1124 धवलक्कपुरे धनपतिश्रीबकुल-बन्दिकवसत्यां पञ्चाशकप्रकरणोपरि 8750 श्लोकप्रमाणा बृहदवृत्तिः समाप्ति प्राप्ता / तस्य श्लोकः "चतुरधिकविंशतियुते वर्षे सहस्र शते च सिद्धेयम् / धवलक्कपुरे वसतौ धनपत्योः बकुल-बन्दिकयोः // प्रशस्तिश्लोकः // श्रीनवाङ्गीटीकाकारेण स्वकीयवृत्तौ अनेकस्थलेषु "अन्ये तु", "केचिद् इति" "इत्यन्ये" इत्यादिनाऽऽचार्यश्रीयशोभद्रसूरिवचनांशवो गाथादीनामर्थतया, पाठभेदतया व्याख्यातया च सङ्ग्राहिताः / इदृशः तुल्यपाठाः कति ? इति जिज्ञासुना मया द्वयोवृत्योरध्ययनं कुर्वता यावन्ति तुल्यपाठस्थानानि लब्धानि तत्सर्वाण्यपि “अन्ये तु" सज्ञके परिशिष्टे सगृहीतानि वर्तन्ते / तत्रत एव जिज्ञासुभिर्द्रष्टव्या / / प्रायेण बृहढत्यनुसारेण लघुवृतेः संरचना भवति / यथा श्रीआवश्यकहारिभद्रीयबृहढत्यनुसारेण श्रीमाणिक्यशेखरसूरिणा विहिता लघुवृत्तिः / किन्तु प्रकृते किञ्चिद् विशेषः समस्ति / लघुटीकायाः 11

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 355