Book Title: Padarth Prakash 26 Gunsthankramaroh
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 143 सिद्धानां गुणाष्टकं सहेतुकम् अनन्तं केवलज्ञानं, ज्ञानावरणसङ्क्षयात् / अनन्तं दर्शनं चैव, दर्शनावरणक्षयात् // 130 // शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् / अनन्ते सुखवीर्ये च, वेद्यविघ्नक्षयात्क्रमात् // 131 // आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः / नामगोत्रक्षयादेवा-मूर्त्तानन्ताऽवगाहना ॥१३२॥॥त्रिभिर्विशेषकम् // व्याख्या - सिद्धानामनन्तं 'केवलज्ञानं' भवति, कस्मात् ? 'ज्ञानावरणसङ्ख्यात्' / 'अनन्तं दर्शनं' चापि भवति, कस्मात् ? 'दशनावरणक्षयात्' / सिद्धानां 'शुद्धसम्यक्वचारित्रे' भवतः, कथम्भूते ? 'क्षायिके', कस्मात् ? 'मोहनिग्रहात्', दर्शनमोहनीयचारित्रमोहनीययोः क्षीणत्वात् / 'अनन्ते सुखवीर्ये च' भवतः, कस्मात् ? 'वेद्यविघ्नक्षयात्', वेद्यक्षयादनन्तं सुखम्, विघ्नक्षयादनन्तं वीर्यमित्यर्थः / 'सिद्धानामक्षया' स्थितिर्भवति, कस्मात् ? 'आयुषः क्षीणभावत्वात्' / अमूर्तत्वेऽनन्तावगाहना भवति, कस्मात् ? नामगोत्रक्षयादेवेति // 130-131-132 / / अथ सिद्धानां यत्सौख्यम्, तदाह - यत्सौख्यं चक्रिशक्रादि-पदवीभोगसम्भवम् / ततोऽनन्तगुणं तेषां, सिद्धावक्लेशमव्ययम् // 133 // व्याख्या - 'चक्रिशक्रादिपदवीभोगसम्भवं' यत्सौख्यमुत्कृष्टं वर्ण्यते ततोऽपि तेषां' सिद्धानामनन्तगुणं भवति, क्व?-'सिद्धौ' मुक्तौ, कथम्भूतं सौख्यम् ? 'अक्लेशम्' अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः, ते न विद्यन्ते यत्र तदक्लेशम्, पुनः कथम्भूतम् ? 'अव्ययं' न व्येति = न चलति स्वस्वभावादिति अव्ययमक्षयमित्यर्थः // 133 / /
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234