________________ 143 सिद्धानां गुणाष्टकं सहेतुकम् अनन्तं केवलज्ञानं, ज्ञानावरणसङ्क्षयात् / अनन्तं दर्शनं चैव, दर्शनावरणक्षयात् // 130 // शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् / अनन्ते सुखवीर्ये च, वेद्यविघ्नक्षयात्क्रमात् // 131 // आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः / नामगोत्रक्षयादेवा-मूर्त्तानन्ताऽवगाहना ॥१३२॥॥त्रिभिर्विशेषकम् // व्याख्या - सिद्धानामनन्तं 'केवलज्ञानं' भवति, कस्मात् ? 'ज्ञानावरणसङ्ख्यात्' / 'अनन्तं दर्शनं' चापि भवति, कस्मात् ? 'दशनावरणक्षयात्' / सिद्धानां 'शुद्धसम्यक्वचारित्रे' भवतः, कथम्भूते ? 'क्षायिके', कस्मात् ? 'मोहनिग्रहात्', दर्शनमोहनीयचारित्रमोहनीययोः क्षीणत्वात् / 'अनन्ते सुखवीर्ये च' भवतः, कस्मात् ? 'वेद्यविघ्नक्षयात्', वेद्यक्षयादनन्तं सुखम्, विघ्नक्षयादनन्तं वीर्यमित्यर्थः / 'सिद्धानामक्षया' स्थितिर्भवति, कस्मात् ? 'आयुषः क्षीणभावत्वात्' / अमूर्तत्वेऽनन्तावगाहना भवति, कस्मात् ? नामगोत्रक्षयादेवेति // 130-131-132 / / अथ सिद्धानां यत्सौख्यम्, तदाह - यत्सौख्यं चक्रिशक्रादि-पदवीभोगसम्भवम् / ततोऽनन्तगुणं तेषां, सिद्धावक्लेशमव्ययम् // 133 // व्याख्या - 'चक्रिशक्रादिपदवीभोगसम्भवं' यत्सौख्यमुत्कृष्टं वर्ण्यते ततोऽपि तेषां' सिद्धानामनन्तगुणं भवति, क्व?-'सिद्धौ' मुक्तौ, कथम्भूतं सौख्यम् ? 'अक्लेशम्' अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः, ते न विद्यन्ते यत्र तदक्लेशम्, पुनः कथम्भूतम् ? 'अव्ययं' न व्येति = न चलति स्वस्वभावादिति अव्ययमक्षयमित्यर्थः // 133 / /