Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas

View full book text
Previous | Next

Page 9
________________ तपशबुद्धिविषयत्वे तत्र कार्यत्वावश्यम्भावस्वीकारप्रसङ्गात् तत एवच तत्रानात्मत्वापत्तेः । अपिच "आत्माऽनित्यः सावयवत्वात् घटादिवद्" इत्याभाससाम्यप्रसङ्ग आहेतपक्षेऽनिवार्यः, कथञ्चित्तदिष्टमितिचेदनात्मत्वप्रसङ्गः तदपि तथैवेति चेत् ? तदा व्यवसायात्मकप्रत्ययमनासादयतो जैनस्य सर्वथानाश्वस्ततया लोकालोकबाह्यत्वेन नितान्तमेव कल्याणेप्सुभिरनादररणीयतैवेति निष्पक्षदृशा समीक्ष्यम् । नच समवाय एव नास्तीति वाच्यम् “रूपी' इत्यादि विशिट्रबुद्धधनुपपत्तेः । स्वरूपसम्बन्धे चानन्तस्वरूपकल्पनाऽपरिहार्या । तत्स्थाने च भवतापि स्वीक्रियमाणे कथञ्चित्तादात्म्यलक्षणसम्बन्धे * विविधदूषणगणप्रसरप्रसङ्गात् । ननुवेदविदभिमतौपनिषदराद्धान्तनुयायिनस्तवाचार्यविरुद्धसमवायाङ्गीकारः कथं शोभते ? उच्यतेप्राचार्याणां समवायखण्डनस्यानिर्वचनीयतापर्यवसायित्वेन तादृशाधिकारिजनौपयिकव्यवहारभूमिमाश्रित्य तदखण्डनत्वेन विरोधाभावात् । भवता तथाङ्गीकारेऽपसिद्धान्तापत्तेः । मम तु सकलशास्त्रमहावाक्यैकवाक्यतायां निर्णीयमानायां सर्वास्तिकपरमाचार्योक्तिषु विरोधसम्भावनाया अपि दूरोत्सारित्त्वात् । तदेतत् कृतविस्तरमस्मत्प्रणीतदर्शनाऽविरोधसमीक्षायाम् । एवञ्च सावयवत्वेन "कार्यत्व" हेतु सिद्धः। अथवा "क्षित्यादि कार्य भावत्वे सति विनाशित्वात् पटवत्"। यत्र यत्र भावत्वे सति विनाशित्वं तत्र तत्र कार्यत्वम् । किंवा “यत्र यत्र कार्यत्वे सति भावत्वं तत्र तत्र विनाशित्वम्" इति विनाशित्वकार्यत्वयोः समैव व्याप्तिः। उक्तञ्च कुमारिलभट्टेन तेन यत्राप्युभौ धौं न्यायव्यापकसम्मतौ । तत्रापि च्याप्यतैव स्यादनं न व्यापिता मितेः ॥ (मी० श्लो० वा० अनु० ख० श्लो०६।) "पार्थसारथिमिश्रोऽप्याह-" यत्र न्यूनाधिकभावेन व्याप्यव्यापकभावत्वमसङ्कीर्ण यथा गोत्वविषाणित्वयोः तत्र व्याप्यमेव गोत्वं विषाणित्वमनुमापयति ननु व्यापिका विषाणिता गोत्वम् , अतः समोदाहरणेऽपि व्याप्यतैवानुमितेरनुमानस्याङ्गं न व्यापकते'ति । एवमीश्वरवादविद्विषां "कार्यत्वं" हेतुः स्वरूपासिद्ध इत्यभिधानमसत् । नापि कार्यत्वं व्यभिचारि पवादन्यत्र साध्याभावधिकरणे आत्मादौ वृत्तेरप्रसिद्धः। नच वनस्थतरुतृणादिषु व्यभिचारोद्भावनसम्भावना स्वप्नेऽपि सुसम्पादा तेषां पक्षान्तर्गतत्वेन पक्षकदेशत्वात् । पक्षकदेशे व्यभिचारोद्भावनस्य सकलकथकसम्प्रदायविरुद्धत्वाच । नचायं हेतुर्विरुद्धः साध्याभावव्याप्तरभावात् । नापि कालात्ययापदिष्टः बाधकस्यानुपलम्भात् । नच सत्प्रतिपक्षः साध्याभावसाधकस्य हेत्वन्तरस्याऽदर्शनात् । * अयमेव "अविश्वग्भावखवणः सम्बन्ध" इत्युच्यते आहेतैः । तथाच "स्याद्वादमा" मस्तिषणसुरिणा-तस्माद्धर्मधर्मिणोरविष्वग्भावलक्षण एव सम्बन्धः प्रतिपत्तव्योनम्ब: समवायादिरिति ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 486