Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
हत्य च तत्र विशिष्टा प्राचार्या महोपाध्यायाश्च तासु तासु विद्यासु ख्यातिभाजा विनियोज्यन्ते, तदुपचयाय च महापुस्तकालया विनिवेश्यन्ते । एवं ज्ञानेश्वर्यस्य नैमित्तिकत्वे साम्प्रतमिव सर्गादावपि भवितव्यं तस्य केनचिनिमित्तेन, नैमित्तिकस्य निमित्तमन्तराऽनुपसन्धेः । नान्तरेण निमित्तं कस्यचिन्नैमित्तिकस्य सत्तामुपलभेमहि, नैमित्तिकं च स्वाभाविकञ्चेति विप्रतिषिद्धम् । सर्गादिभुवो मनुष्यास्त्वनधीतविद्यत्वेनाऽनधिगतार्थत्वेन च समानमतयः कथं परस्परं ज्ञानेश्वर्यविनिमयाय निमित्तभावमुपगच्छेयुः, असति च ज्ञानेश्वर्यशा खिनि कस्मिंश्चिदलौकिके शक्तिभाजि अद्य यावज्जगदान्ध्यमेव प्रसज्येत । जडञ्च प्रधानादि स्वयं तादृशज्ञानेश्वर्यपरिणामाय विभवितुमसमर्थमिति पारिशेष्यात्सर्वज्ञं सर्वशक्ति पारमार्थिकं किमपि वस्त्वेव तेभ्यो वेदलक्षणया वाचा ज्ञानेश्वर्यं प्रददातीति नूनं स्वीकार्यम् । पत्रेदमुक्तम्-"स एष सर्वेषामपि गुरु: कालेनानवच्छेदात्" (यो० १ । २६) इति । यथा ब्रह्मेदानीन्तनानामस्माकं वेदशास्त्रेण (परम्परया ) ज्ञानेश्वर्य प्रददद्गुरुः तथा सर्गादिभुवां पूर्वेषामपि तादृशशास्त्रेण ज्ञानैश्वर्यं प्रददद् गुरुरस्तीति मन्तव्यम् । सच नास्मदादिवत् कालेनावच्छिद्यते । एतादृशं शास्त्रञ्च न निर्मूलं भवितुमर्हति, यच्च तन्मूलं तदेवास्माकं ब्रह्म शास्त्रयोनि, जगत्कर्तेश्वर इति च । यत्रेदमुक्तम्-"नकिरिन्द्र ! त्वदुत्तरो न ज्यायाँ बस्ति वृत्रहन् ! नकिरेवा यथा त्वम्" (ऋ० ३। ६ । १६ | १) इति । "न सत्समरचाभ्यधिकश्च दृश्यते" ( श्वे० ६ । ८ ) इति । जगत्कारमीश्वरमनङ्गीकुर्वन्त पाहतवर्या अपि श्रेयोमार्गसिद्धिं परमेष्ठिनः सकाशादेव मन्यन्ते-परमेष्ठी हि भगमान् परमोजन् तत्प्रसादात् परमागमार्थनिर्णयोऽपरस्य परमेष्ठिनो गणधरदेवादेः सम्पयते, तस्माचापरपरमेष्ठिनः परमागमशब्दसन्दर्भो द्वादशाङ्ग” इत्यादि बहूक्त"माप्तपरीक्षायाम् " । तच्च भङ्गघन्तरेण वैदिकसिद्धान्तानुसरणमेव व्यक्तीति सन्त एवेह साक्षिणः । एवञ्चेश्वरसाधनेनानीश्वरवादिकुतर्कजालकृन्तनाऽकुण्ठकर्तरीभावङ्गतमिदं न्यायसानं महदुपकरोत्यास्तिकमार्गाणाम् । एतेनास्य शास्त्रस्य भूतचैतनिकवादादिनिरासपूर्वकोप्युपकारो व्याख्यातः । सोऽयमुपकारस्तापरपर्यायमीमांसाद्वयसाहाय्यपर्यवसायी वैदिकमार्गसंरक्षणार्थ परमोपादेय इत्यध्येतव्यं न्यायशास्त्रम् ।
ननु-सर्वत्र जगतीतले प्रसिद्धमिदं यत्पूर्वमीमांसाशास्त्रमनीश्वरवादिप्रमुखमस्ति, तथैव लोकवार्तिकन्यायकणिकादिग्रन्थेषु जगत्कर्तुरीश्वरस्य विपुलतमा खण्डनमुपलभ्यते, यत्र भवस्वयध्या एव जगत्कर्तारमीश्वरं परास्यन्ति तत्रास्माभिरेव किमपराद्धं तदनङ्गीकारविषय इति चेद् ? उच्यते-सर्वेषां वेदप्रामाण्याभ्युपगन्तृणां वेदस्य तात्पर्यांशे मात्रयापि विरोधो न रश्यते, यश्च विरोध इव प्रतीयते असावधिकारिभेदनिबन्धनतया प्रक्रियाभेदनिबन्धनः । वेदप्रामाण्यञ्च सर्वेषामास्तिकानां रिरक्षायषितम्, तत्क्वचित् स्वतःप्रामाण्याङ्गीकारेण, क्वचिसरतःप्रामाण्याङ्गीकारेण । आद्यपक्षस्थापना ईश्वरानङ्गीकारेऽपि भवितुमर्हतीति प्रौढिवादमद्रया पूर्वस्यां मीमांसायामीश्वरानङ्गीकारोऽवतारितो नत्वसौ विवक्षितोस्ति । कथमन्यथा "ब्राझेख जैमिनिरुपन्यासादिभ्यः" (ब्र० सू० ४ । ४ । ५) इत्यत्र सर्वज्ञत्वसर्वेश्वरत्वरूपेण मुक्तस्य
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 486