Book Title: Nyayasiddhant Muktavali
Author(s): Maherchand Lakshmandas
Publisher: Maherchand Lakshmandas
View full book text
________________
दर्शनात् वास्यादिसाध्यच्छिदादिक्रियामुदाहृत्य गन्धादिज्ञानानां क्रियात्वेन तत्करणभूतघ्राणादीनामनुमानमित्यायुह्यम् । एवं प्रकृतेऽपि कार्यत्वजन्यत्वयोः घटादौ सामान्यव्याप्तिं गृहीत्वेश्वरसाधने नैव किञ्चिद्बाधकमिति राजमार्ग एवानीश्वरवादिनां जगत्कर्तृत्वसाधनभ्रान्तिस्तेषां प्राक्तनदुरदृष्टसमुत्थैव वेदितव्या। आतश्च हेतौ याहत्त्कतादृत्त्कविशेषणोपन्यासेन व्याप्त्युस्थापनमपि वादिनां मुधैव । अन्यथा छिदाम्प्रति कुठारादिसाधनवत् ज्ञानम्प्रति चक्षुरादिप्वपि करणेषु काठिन्यादिधर्माङ्गीकारापत्तिरनिवार्या स्यात् । तस्माच्छरीरित्वादिविशेषणानां गुरुधर्मतया साध्यतानवच्छेदकत्वात् "शरीरी वा स्याद् " इत्यादिविकल्पजालमपि व्युदस्तम् ।
अयमभिसन्धिः-यत्कार्यं तच्छरीरिकर्तृजन्यमिति व्याप्तयनुसारं जगत्कर्तुः सशरीरत्वं तेऽभीष्टम् । तत्र पृच्छामः-किं पक्षभूतमीश्वरमङ्गीकृत्य कर्तृत्वेन तत्र शरीरित्वं सिषाधयिषितम् ? शरीराभावत्वेनेश्वरो जगत्कत्तैव नास्ताति विवक्षितम् ? किं वा पृथिव्यादिपक्षयित्वा कार्यत्वेन हेतुना तस्य शरीरित्वमभीष्टम् ? शरीराजन्यत्वेन पृथिव्यादीनां कार्यत्वमेव नास्ति ? आहोस्वित् शरीराजन्यत्वेन तत्र अकर्तृकत्वं=( कत्रभाव : एवाभिमतम् ? किं वा सिद्धान्त्यभिमतव्याप्तिस्तम्भनार्थं विपरीतव्याप्त्युद्भावनमात्रम भीष्टमिति षड् विलल्पाः । तत्र न तावत् प्रथमद्वितीयौ पक्षौ आश्रयासिद्धयपसिद्धान्तप्रतिज्ञाविरोधबाधैः कवलितत्वात् अर्थात् प्रथमे पक्षे वाद्यभिमतोऽनुमानस्यायमाकारः “ईश्वरः शरीरी कर्तृत्वात् कुलालवत्"। अत्र कर्तृत्वं हेतुराश्रयासिद्धः । नयनीश्वरवादिना मते पक्षभूत ईश्वरः प्रमाणान्तरसिद्धः । ईश्वरे शरीरित्वसाधनलोभेन कर्तृत्वमङ्गीक्रियेत तदाऽपसिद्धान्तः। ईश्वरः "शरीरी अकर्ता चे"ति प्रतिज्ञाविरोधोऽपि । प्रत्यक्षादिप्रमाणैः ईश्वरे शरीररूपसाध्याभावनिश्चय उक्तो हेतुर्बाधितोऽपि । उक्तञ्च-वर्धमानाचार्यैः कुसुमाञ्जलिप्रकाशे "ईश्वरपदस्याशररिकर्तृवाचकत्व" मिति । ईश्वरपदमेव तत्र ज्ञानक्रियाशक्तयोः स्वाभाविकत्वं बोधयतीति तदीयग्रन्थार्थः । श्रुतिरपि "स्वाभाविकी ज्ञानबलक्रिया च" इत्येवजातीयका तथैवाह । तृतीयोऽपि न " यत्कार्यं तच्छरीरिकर्तृजन्यम्" इति व्याप्तेरनिश्चयात् । लघुधर्मस्यैव प्रायोऽवच्छेदकत्वात्। कार्यत्वस्य कर्तृत्वेन व्याप्तिः" नतु शरीरिकर्तृत्वेनेत्यभिप्रायः । नच चतुर्थः पक्षः-बाधानैकान्तिकाभ्यां दूषितत्वात् , अर्थात् “भूभूधरादिकं करृजन्यं-अकार्यम् शरीराजन्यत्वात्" इत्येव वादिमतेऽनुमानाकारः तत्र पृथिव्यादिवस्तुमात्रस्य पक्षत्वे शरीराजन्यत्वहेतोः घटादौ प्रत्यक्षबाधा, एकदेशस्य पक्षत्वे कत्रजन्यत्वाभावरूपसाध्याभाववति पृथिव्यादावेव शरीराजन्यत्वहतोवृत्तितायां व्यभिचारः स्फुट एव । "पृथिव्यादिकमकर्तृकं शरीराजन्यत्वात्" इति पञ्चमोऽपि पक्षोऽयुक्तः अजन्यत्वमात्रस्यैव हेतुभावसत्त्वे शरीररूपविशेषणस्य व्यर्थत्वादित्यसकृदवोचाम । नापि षष्ठः अर्थात् यत्र शरीराजन्यत्वं तत्र कर्तृजन्यत्वाभाव" इति न्याप्त्या "यत्कार्य तत्कर्तृजन्य"मिति सिद्धान्तव्याप्तेः स्तम्भनमात्रं कृतं मयेति चेत् ? तत्र पृच्छामः स्तम्भनपदेन यदि बाधोऽभिप्रेतः तन्न सम्पक्, शरीराजन्यत्वहेतोः पक्षधर्मताया एवाऽसिद्धेः । उक्तञ्चाचार्यैः
न बाधोऽस्योपजीव्यत्वात्प्रतिबन्धो न दुर्बलैः ।
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 486